SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६ सांख्यदर्शनम् । वीजाङ्कुराभ्यां चात्रायमेव विशेषो यद्दोजाङ्गरस्थले क्रमिकपरम्परयानवस्थाभिव्यक्तौ चैककालीनपरम्परयेति । प्रामाणिकत्वन्तु तुल्यमेवेति । सर्वकाय्याणां स्वरूपतो नित्यत्वमवस्थाभिर्विनाशित्वं चेति पातज्जलभाष्ये वदद्भिर्व्यासदेवैरपौयमनवस्था प्रामाणिकत्वेन खोक्शतेति । अत्र च वौजाङ्कुरदृष्टान्तो लोकदृष्ट्योपन्यस्तः । वस्तुतस्तु जन्मकर्मादिवदित्यचैव तात्पय्र्य्यम् । तेन वीजाङ्कुरप्रवाहस्यादिसर्गावधिकत्वेनानवस्थाविरहेऽपि न चतिः । आदिसर्गे हि वृक्षं विनैव बोजमुत्पद्यते हिरण्यगर्भसङ्कल्पेन तच्छरीरादिभ्य इति श्रुतिस्मृत्योः प्रसि । इम् । यथा हि पादपो मूलस्कन्धशाखादिसंयुतः । आदिवीजात् प्रभवति वौजान्यन्यानि वै ततः ॥ इति विष्णुपुराणादिवाक्यैरिति ॥ १२२ ॥ वस्तुतस्त्वनवस्थापि नास्तीत्याह । उत्पत्तिवद्दादोषः ॥ १२३ ॥ यथा घटोत्पत्तेरुत्पत्तिः स्वरूपमेव वैशेषिकादिभिरसदुत्पादवादिभिरिष्यते लाघवात् तथैवास्माभिर्घटाभिव्यक्तेरप्यभिव्यक्तिः स्वरूपमेवैष्टव्या लाघवात् । अत उत्पत्ताविवाभिव्यक्तावपि नानवस्थादोष इत्यर्थः । श्रथैवमभिव्यक्तेरभिव्यक्तयनङ्गीकारे कारणव्यापारात् प्राक् तस्याः सच्वानुपपत्त्या सत्कार्य्यवादचतिरिति चेन्न । अस्मिन् पचे सत एवाभिव्यक्तिरित्येव सत्कार्य्यं सिद्धान्त इत्याशयात् । श्रभिव्यक्तेश्चाभिव्यक्तय। भावेन तस्याः प्रागसत्त्वेऽपि नासत्काय्यैवादत्वापत्तिः । नन्वेवं महदादीनामेव प्रागसत्त्वमिष्यतां किमभिव्यक्त्याख्यावस्थाकल्पनेनेति चेन्न । तद्भेदं तर्ह्यव्याकृतमासीदित्यादिश्रुतिभिर For Private And Personal Use Only -
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy