________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
प्रमाणं न धनागतसत्तायामिव श्रुत्यादयोऽतीतसत्तायामपि स्फुटमुपलभ्यन्त इति। मैवम् । योमिप्रत्यक्षत्वान्यथानुपपत्त्यानागतातौतयोरुभयोरेव सत्त्वसिः । प्रत्यक्ष सामान्य विष. यस्य हेतुत्वात्। अन्यथा वर्तमान स्थापि प्रत्यक्षेणासियापत्त: । तस्मापियामौत्सर्गिकप्रामाण्येनासति बाधके योगिप्रत्यक्षेणातौतमबस्तौति सिध्यति। योगिनामतीतानागतप्रत्यक्षे च श्रुतिस्मृतीतिहासादिकं प्रमाणं योगवाति के प्रपखितमिति दिक। तदेवमभिव्यक्तिलयाभ्यां कार्याणामुत्पत्तिनाशव्यवहारावुनी। नन्वभिव्यक्तिरपि पूर्व सती वासती वा। थावे कारण व्यापारात् प्रागपि कार्य स्याभिव्यक्त्या स्वकार्य जनकत्वापत्तिः कारण व्यापारच विफलः । अन्त्य चाभिव्यक्तावेव सत्कार्यसिद्धान्तक्षतिः। असत्या एवाभिव्यक्तरभिव्यक्तयङ्गीकारादिति । अत्रोचते। कारण व्यापारात् प्राक सर्वकार्याणां सदासत्त्वाभ्य पगमेनोक्तविकल्पानवकाशा हटवत् तदभिव्यक्तरपि वर्तमानावस्थया प्रागसत्वेन तदसत्तानिवृत्त्यथं कारण व्यापारापेक्षणात् । अनागतावस्थया च सत्कार्यसिद्वान्तस्याक्षतेः। नन्वेकदा सदसत्त्वयोर्विरोध इति चेत् । प्रकारभेदस्योतत्वात्। नन्वेवमपि प्रागभावानङ्गीकारण प्रागसत्त्वमेव कार्याणां दुर्वचमिति | मैवम् । अवस्थानमेव परस्पराभावरूपत्वादिति ॥ १२१ ॥
ननु सत्कार्यसिद्धान्तरक्षार्थमभिव्यक्तरप्यभिव्यक्तिरेष्टया। तथा चानवस्थेत्याशझ्याह। पारम्पर्यतोऽन्वेषणा वीजाङ्गरवत् ॥ १२२ ॥
पारम्पर्य्यतः परम्परारूपेणैवाभिव्यक्तेरनुधावनं कर्तव्यम् । वौजाकरवत् प्रामाणिकत्वेन चास्या अदोषत्वादित्यर्थः ।
For Private And Personal Use Only