________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
उत्पत्तियोगो न सम्भवति। असतः सत्त्व एवोत्पत्तिव्यवहारादिति चेदित्यर्थः ॥ ११८ ॥
परिहरति। नाभिव्यक्तिनिबन्धनी व्यवहारव्यवहारौ ॥१२०॥
कार्योत्पत्तेर्व्यवहाराव्यवहारी कार्याभिव्यक्तिनिमितको। अभिव्यक्तित उत्पत्तिव्यवहारोऽभिव्यक्त्यभावाचोत्पत्तिव्यवहाराभावः । न त्वसतः सत्तयेत्यर्थः। अभिव्यक्तिश्च न ज्ञानं किन्तु वत्त मानावस्था। कारणव्यापारोऽपि कार्य स्य वर्तमानलक्षणपरिणाममेव जनयति। सतश्च कार्यस्य कारणव्यापारादभिव्यक्तिमात्र लोकेऽपि दृष्टम् । यथा शिलामध्यस्थप्रतिमाया लैङ्गिकव्यापारणाभिव्यक्तिमान तिलस्थतैलस्य च निष्पौड़नेन धान्यस्थतण्डुलस्य चावघातेनेति । तदुतां वाशिष्ठे।
सुषुप्तावस्थया चक्रपझरेखाः शिलोदरे। यथा स्थिता चितेरन्तस्तथेयं जगदावलौ ॥ इति। प्रकृतिहारणेत्यर्थः ॥ १२० ॥
ननु भवतूत्पत्त: प्राक् सतो यथाकथञ्चिदुत्पत्तिः । जाशस्वनादिभावस्य कथं स्यादित्याकाङ्क्षायामाह।
नाशः कारणलयः ॥ १२१ ॥ लौङ् श्लेषण इत्यनुशासनालयः सूक्ष्मतया कारणेष्वविभागः । स एवातीताख्यो नाश इत्यच्यत इत्यर्थः । अनागताख्यस्तु लयः प्रागभाव इत्युच्यत इति शेषः। लौनकार्यव्यक्तस्तु पुनरभिव्यक्तिर्नास्ति। प्रत्यभिज्ञाद्यापत्त्या पातञ्जले निराकृतत्वात्। परेषामिवास्माकमप्यनागतावस्थाया: प्रागभिवाख्याया अभिव्यक्तिहेतुत्वाञ्चेति। नन्वतौतमप्यस्तीत्यत्र किं
For Private And Personal Use Only