________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
८३
किञ्चाभावेषु खतो विशेषे भावत्वापत्तिः। प्रतियोगिरूपविशेषश्च प्रतियोग्यसत्ताकाले नास्ति। अतोऽभावानामविशिष्टतया न कार्योत्पत्ती नियामकत्वंयुक्तमिति ॥ ११५ ॥ उपादाननियमे प्रमाणमाह ।
सर्वत्र सर्वदा सर्वासम्भवात् ॥ ११६ ॥ सुगमम् । उपादानानियमे च सर्वत्र सर्वदा सर्व सम्भवेदिल्याशयः ॥ ११६ ॥ इतश्वनासदुत्पाद इत्याह ।
शक्तस्य शक्यकरणात् ॥ ११७॥ कार्यशक्तिमत्त्वमेवोपादानकारणत्वम् । अन्यस्य दुर्वचत्वात्। लाघवाञ्च। सा शक्तिः कार्य स्यानागतावस्थैवेत्यतः शतस्य शक्यकार्यकरमावासत उत्पाद इत्यर्थः ॥ ११७ ॥
इतश्च ।
कारणभावाच्च ॥ ११८ ॥ उत्पत्तेः प्रागपि कार्यस्य कारणाभेदः श्रूयते तस्माच्च सत्कार्यसिद्ध्या नासदुत्पाद इत्यर्थः। कायस्यासत्त्वे हि सद. मतोरभेदानुपपत्तिरिति। उत्पत्तेः प्राक् कार्याणां कारणाभेदे च श्रुतिः। तदेदं तद्ययावतमासीत्। सदेव सौम्येदमग्र आसीत्। आत्मैवेदमग्र आसीत्। आप एवेदमग्र आसुरित्याद्या ॥ ११८॥
शकते। - न भावे भावयोगश्चेत् ॥ ११६ ॥ नन्वेवं कार्य्यस्य नित्सल्ले सति भावरूपे कार्ये भावयोग
For Private And Personal Use Only