________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२
सांख्यदर्शनम्।
साभावविषयत्वमिति। ते एवातीतानागतत्वे अवस्थे ध्वंस. मागभावव्यवहारं जनयतस्तदतिरिलाभावहये प्रमाणाभावा. दिति दिक्। अधिकं तु पातञ्जले दृष्टव्यम् । एवमत्यन्ता. भावान्योऽन्याभावावप्यधिकरणस्वरूपावव । न चैवं प्रतियोगिसत्ताकालेऽप्यधिकरणस्वरूपानपायादत्यन्ताभावप्रत्ययप्रसङ्ग इति वाच्यम्। परैरपि प्रतियोगिमतिदेथे तदत्यन्ताभावाङ्गीकारात्। प्रतियोगिसम्बन्धस्यातीतानागतावस्थयोरेव सामयिकात्यन्ताभावत्वसम्भवाच। तस्मात्रामसिहान्तेऽभावोअतिरिक्त: । किञ्च घटो ध्वस्तो घटो भावो घटोऽत्र नास्तीत्यादिप्रत्ययनियामकतया किञ्चिदस्त्वाकाङ्क्षायां तद्भावरूपमेव कल्पाते लाघवात्। अमावस्यादृष्टस्य कल्पने गौरवादिति मन्तव्यम् ॥ ११३॥ इतव सत्कार्यसिद्धिरित्याह।
नासटुत्पादो नृश्टङ्गवत् ॥ ११४ ॥ नरशृङ्गतुल्य यासत उत्पादोऽपि न सम्भवतीत्यर्थः ।११४॥ अत्र हेतुमाह।
उपादाननियमात् ॥ ११५ ॥ मृद्येव घट उत्पद्यते तन्तुष्वेव पट इत्येवं कार्याणामुपादानकारणं प्रति नियमोऽस्ति । स न सम्भवति । उत्पत्ते: प्राक कारणे कार्यासत्तायां हि न कोऽपि विशेषोऽस्ति येन कञ्चिदेवासन्तं जनये वेतरमिति। विशेषाङ्गीकार च भावत्वापत्तेगतमसत्तया। स एव च विशेषोऽस्माभिः कार्यत्यानागता. वस्थेत्युच्यत इति । एतेन यदैशेषिकाः प्रागभावमेव कार्योत्यत्तिनियामकं कल्पयन्ति तदप्यपास्तम्। अभावकल्पनापेक्षया भावकल्पने लाघवात् । भावानां दृष्टवादन्यानपेचत्वाच ।
For Private And Personal Use Only