________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
८१
मानस्य वक्ष्यमाणत्वात्। वादिविप्रतिपत्त स्तु सत्कार्य स्यैवासिद्धिरिति यदीत्यर्थः ॥ ११ ॥
अभ्युपेत्य परिहरति। तथाप्येकतरदृष्ट्या एकतरसिव पलापः ॥११२॥
मास्तु सत् कार्य तथाप्येकतरस्य कार्यस्य दृध्यान्चतरस्य कारणस्य सिद्धेरपलापो नास्त्येवेति नित्यं कारणं सिद्ध मेव तत एव च परिणामिनः सकाशादपरिणामितया पुरुषस्य विवेकेन मोक्षोपपत्तिरित्यर्थः । अनेनैवाभ्युपगमवादेन वैशेषिकाद्यास्तिकशास्त्र प्रवर्तते। अतो न सत्कार्यवादिश्रुतिस्मृतिविरोधेऽपि तेषामंशान्तरेष्वप्रामाण्यमिति मन्तव्यम् ॥ ११२॥ परमार्थतः परिहारमाह।
त्रिविधविरोधापत्तेश्च ॥ ११३ ॥ अथ सर्वे काये विविधं सर्ववादिसिद्धमतौतमनागतं वर्तमानमिति। तत्र यदि कायं सदा सन्नेष्यते तदा त्रिविधवानुपपत्तिः। अतीतादिकाले घटाद्यभावेन घटादेरतीतादिधर्मकत्वानुपपत्तेः। सदसतोः सम्बन्धानुपपत्तेः। किञ्च प्रति. योगित्वस्य प्रतियोगिरूपत्व तहोषतादयस्थ्यात् । अावमात्रखरूपत्वं पटाद्यभावो घटाघभावः स्यादभावत्वाविशेषात् । अभावेष्वपि स्वरूपतो विशेषाङ्गीकारे चाभावत्वस्य परिभाषामानत्वप्रसङ्गात् । अथ प्रतियोग्येवाभावविशेषक इति चेन्न । असतः प्रतियोगिनः प्रागभावादिषु विशेषकत्वासम्भवादिति । तस्मानित्यस्यैव कार्यस्यातीतानागतवर्तमानावस्थाभेदा एक वक्तव्याः। घटोऽतीतो घटो वर्तमानो घटो भविष्यन्निति प्रत्ययानां तुल्यरूपतौचित्यात्। न त्वं कस्य भावविषयत्वमन्ययो
For Private And Personal Use Only