________________
Shri Mahavir Jain Aradhana Kendra
८०
सांख्यदर्शनम् ।
सौक्ष्मप्रावधानादभिभवात् समानाभिहाराश्च ॥ इति । समानाभिहारः सजातीयसंवलनम् । यथा माहिषे गव्यमिश्रणान्माहिषत्वाग्रहणमिति ॥ १०८॥
नन्वतिदूरत्वादिषु मध्ये प्रकृत्याद्युपलम्भे किं प्रतिबन्धकमिति तत्राह ।
सौक्ष्मप्रात् तदनुपलब्धिः ॥ १०६ ॥
तयोः पूर्वोक्तयोः प्रकृतिपुरुषयोरनुपलब्धिस्तु सौक्ष्मादित्यर्थः । सूक्ष्मत्वं च नाणुत्वम् । विश्वव्यापनात् । नापि दुरूचत्वादिकम् । दुर्वचत्वात् । किन्तु प्रत्यक्षप्रमाप्रतिबन्धिका जातिः | योगजधर्मस्य चोत्तेजकतया प्रकृतिपुरुषादीनां प्रत्यक्षप्रमा भवति । जातिसाङ्गय्र्यं च न दोषावहम् । अथवा निरवयवद्रव्यत्वमेवात्र सूक्ष्मत्वं योगजधर्मथोत्तजक एवेति
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
॥ १०८ ॥
नन्वभावादेवानुपलब्धिसम्भवे किमर्थं सौक्ष्मंत्र कल्पते । अन्यथा च शशशृङ्गादेरपि सौक्ष्मादनुपलब्धिः किं न स्यादिति
तत्राह ।
कार्य्यदर्शनात् तदुपलब्धेः ॥ ११० ॥
कार्यान्यथानुपपत्त्या प्रक्कत्यादिसिद्धौ सत्यां तेषां सूक्ष्मत्व' कल्पते । अनुमानात् पूर्वं च सूक्ष्मत्वादिसंशयेनाभावानिर्णयादनुमानमुपपद्यत इत्यर्थः ॥ ११० ॥
अत्र शङ्कते ।
वादिविप्रतिपत्तेस्तदसिद्धिरिति चेत् ॥ १११ ॥
ननु कार्य्यं चेदुत्पत्त ेः प्राक् सिद्धं स्यात् तदा तदाधारतया नित्या प्रकृतिः सेव्यति काय साहित्येनैव कारणानु
For Private And Personal Use Only