________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
se
पुरुषस्वरूपत्वेऽपि वैशेषिकाणां मते श्रोत्रवत् कार्यता बोध्या सुखाद्यवच्छिन्नचितेरेव भोगत्वात्। अस्मि च भोगस्य फलत्वपक्षे दुःखभोगाभाव एवापवर्गो बोध्यः । अथवा भोग्यतारूपस्वत्वसम्बन्धेन सुखदुःखाभावयोरेव फलत्वमस्तु तेन सम्बन्धेन धनादेरिव सुखादेरपि पुरुषनिष्ठत्वादिति ॥ १० ॥ __तदेवं प्रमाणानि प्रमाणफलभूतां प्रमयसिदिच प्रतिपाद्य अमेयसिद्धेरपि फलमाह।
__ नोभयं च तत्त्वाख्याने ॥ १०७॥
प्रमाणेन प्रकृतिपुरुषयोस्तत्त्वाख्याने तत्त्वसाक्षात्कार सत्यु भयमपि सुखदुःखे न भवतः । विहान् हर्ष शोको जहा. तौति श्रुतायाञ्चेत्यर्थः ॥ १०७॥
सझेपतो विवेकेनानुमापितो प्रकृतिपुरुषो तयोः प्रकृति. पुरुषयोरनुमानेऽवान्तरविशेषा इत: परमध्यायसमाप्ति यावहिचाास्तत्र चादौ प्रकृत्याद्यनुमानेष्वनुपलम्भबाधकमपाकरोति।
विषयोऽविषयोऽपतिदूरादेहानोपादानाभ्यामिन्द्रियस्य ॥ १०८॥
___ इन्द्रियानुपलभ्यतामाबतो घटाद्यभाववत् प्रत्यक्षेप चार्वाकः प्रकृत्याद्यभावः साधयितुं न शक्यते यतो विद्यमानोऽप्यर्थ इन्द्रियाणां कालभेदेन विषयोऽविषयश्च भवति। अतिदूरत्वादिदोषात्। इन्द्रियजातेन्द्रियग्रहाभ्यां चेत्यर्थः । सामग्रीसमवधाने सत्यनुपलम्भस्यैवाभावप्रत्यक्षहेतुता। प्रकृत्याधुपलम्भे तु वक्ष्यमाणप्रतिबन्धान्न सामग्रीसमवधानमिति भावः। अतिदूरादयश्च दोषा विशिष्य कारिकया परिगणिताः । अतिदूरात् सामोप्यादिन्द्रियघातान्मनोऽनत्रस्थानात् ।
For Private And Personal Use Only