________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
वक्ष्यमाणत्वात् । तथा च योग्यः शब्दस्तज्जन्यं ज्ञानं शब्दाख्य प्रमाणमित्यर्थः । फलं च पौरुषेयः शाब्दो बोध इति ॥१०॥ प्रमाणप्रतिपादनस्य स्वयमेव फलमाह ।
उभयसिदिः प्रमाणात् तदुपदेशः ॥१०२॥ उभयोरात्मानात्मनोविवेकेन सिद्धिः प्रमाणादेव भवति । अतस्तस्य प्रमाणस्योपदेशः कृत इत्यर्थः ॥ १.२॥
तत्र येनानुमानविशेषेण प्रमाणेन मुख्यतोऽत्र प्रकृतिपुरुषो विविच्य साधनोयौ तहर्णयति।
सामान्यतो दृष्टादुभयसिदिः ॥ १०३ ॥ अनुमानं तावत् त्रिविधं भवति । पूर्ववत् शेषवत् सामा. न्यतो दृष्टं चेति। तत्र प्रत्यक्षीकृतजातीयविषयकं पूर्ववत्। यथा धूमेन वहानुमानम्। वह्निजातीयो हि महानसादौ पूर्व प्रत्यक्षीकत: । व्यतिरेकानुमानं शेषवत् शेषोऽपूर्वोऽर्थोऽस्य विषयत्व नास्तीति शेषवत् । अप्रमिइसाध्यकमिति यावत्। यथा पृथिवीत्वे नेतरभेदानुमानम्। पृथिवीतरभेदो हि प्रागसिद्धः । मामान्यतो दृष्टं च तदुभयभित्रमनुमानम् । यत्र सामान्यतः प्रत्यक्षादिजातीयमादाय व्याप्तिग्रहात् पक्षधर्मताबलेन तद्विजातीयोऽप्रत्यक्षाद्यर्थः सिध्यति । यथा रूपादिजाने क्रियात्वन करणवत्त्वानुमानम् । अत्र हि पृथिवी. त्वादिजातीयं कुठारादिकरणमादाय व्याप्ति ग्टहोला तहिजातीयमतौन्द्रियं ज्ञान करणमिन्द्रियं साध्यत इति। तत्र सामान्यतो दृष्टादनुमानाइयोः प्रकृतिपुरुषयोः सिद्धिरित्यर्थः । तत्र प्रकृतेः सामान्यतो दृष्टमनुमानम्। यथा महत्तव सुख. दुःखमोहधर्मकद्रव्योपादानकं कार्यत्वे सति सुखदुःखमोहधर्मकत्वात् सुवर्षादिजकुण्डलादिवदित्यादि । पुरुषे तु या
For Private And Personal Use Only