________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
प्यनुमानापेक्षा नास्ति सर्वसम्मतत्वात् तथापि प्रकृत्यादिविवेके सामान्यतो दृष्टमेवापेक्ष्यते । तद्यथा। प्रधानं परार्थं संहत्यकारित्वादग्टहादिवदिति । अव हि प्रत्यक्षसिद्धं देहाद्यर्थकत्व' गृहादिषु गृहीत्वा तद्विजातीयः पुरुषः प्रधानादिपरत्वेनानुमौयते । देहादौनां च भोक्तृत्वमविवेकेन प्राग्टहीतमित्य भयसिद्धिरिति ॥ १०३ ॥
या प्रमाणस्य फलभूता प्रमाख्यसिद्धिरुक्ता तथा पुरुषस्य परिणामापत्तिरित्याशङ्कायां तस्याः स्वरूपमाह ।
चिदवसानो भोगः ॥ १०४ ॥
पुरुषखरूपे चैतन्य पर्य्यवसानं यस्यैतादृशो भोग : सिद्धिरित्यर्थः । बुद्धेर्भोगस्य व्यावर्त्तनाय चिदवसान इति । चितः परिणामित्वसधर्मत्वादिशङ्कानिरासायाव सानपदम् | चितौ भोगस्य स्वरूपे पर्य्यवसितत्वान कौटस्यादिहानिरित्याशयः तथाहि प्रमाणाख्यवृत्त्यारूढ प्रकृतिपुरुषादिकं प्रमेयं वृत्त्या सह पुरुषे प्रतिविम्बितं सद्भासते । यतोऽर्थोपरक्तवत्तिप्रतिविम्बावच्छिन्न' स्वरूपचैतन्यमेव भानं पुरुषस्य भोगः प्रमाणस्य च फलमिति । ततश्च प्रतिविम्ब रूपेणार्थसम्बन्धे द्वारतया वृत्तीनां करणत्वमिति । तदुक्तं विष्णुपुराणे ।
·
गृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति । अन्तःकरणरूपाय तस्मै विश्वात्मने नमः ॥
इति । राज्ञी हि करणवर्गः खामिने भोग्यजातं समर्पय तौति दृष्टमिति । मोगशब्दार्थश्वाभ्यवहरणम् । श्रात्मसात्क - रणमिति यावत् । स च देहादिचेतनान्तेषु साधारणः । विशेषस्त्वयम् । अपरिणामित्वात् पुरुषस्य विषयभोगः प्रतिविम्बादानमात्रम् । अन्येषां तु गरिणामित्वातु पुषादिर
For Private And Personal Use Only