________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
৩
माटतया पुरुषसिद्धानन्तरं तस्य ज्ञेयत्वान्यथानुपपत्त्या प्रतिविम्बसिहौ नान्योऽन्याश्रयः। अथ वृत्तिसाक्षितया विम्बरूपश्चेतन: सिध्यतीति चेत् तर्हि साक्षिण एव प्रमाढत्वमप्यु । चितम्। उभयोटित्वकल्पने गौरवात्। वृत्तिज्ञानघटनानयोः सामानाधिकरण्यानुभवाच्च । किञ्चवं सति बुझे रेव भोक्तृत्व भोक्तभावादित्यागामिसूत्रण भोक्ततया पुरुषसाधनं विरुध्येत । अथ बुद्धिगचिच्छायारूपेण सम्बन्धे न विम्बस्यैव ज्ञानं न तु चितौ बुद्धिप्रतिविम्बः कल्पात इत्येतावन्मात्रे चेत् तस्याशयो वयेत। तदप्यसत्। सूर्य्यादेः स्वप्रतिविम्बरूपसम्बन्धन जलादितत्स्थ वस्तुभासकवादर्शनात् । किरणरैव तदुभयभासनात्। मरुमरीचिकादौ तु स्वाध्यस्तजलादिभासकत्वं दृष्टमेवेति दृष्टानुसारेणास्माभिश्चितौ बुद्धिप्रतिविम्ब एव सर्वार्थभानहेतुतया सम्बन्धः कल्पित इति। यच्चोतमन्यस्य जाननान्यस्य प्रत्त्यनुपपत्तिरिति। तदपि न। अकरपि फलोपभोगोऽत्राद्यवत् । इत्यागामिसूत्रेण ज्ञानप्रत्योर्वैयधिकरण्यस्य दृष्टान्त नोपपादयिष्यमाणत्वात् । बुद्धेः सङ्कल्पेन देहक्रियायामिवात्रापि संयोगविशेषादेरेव नियामकत्वादिति ॥८६॥
प्रत्यक्षप्रमाणं लक्षयित्वानुमानं लक्षयति । प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानम् ॥१०॥
प्रतिबन्धो व्याप्तिाप्तिदर्शनायापकज्ञानमनुमानं प्रमाणमित्यर्थः । अनुमितिस्तु पौरुषेयो बोध इति ॥ १० ॥ शब्दप्रमाणं लक्ष्यति ॥
आप्तोपदेशः शब्दः ॥ १०१ ॥ याप्तिरत्र योग्यता वेदस्यापौरुषेयतायाः पञ्चमाध्याये
For Private And Personal Use Only