________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
सांख्यदर्शनम्।
ननु प्रतिविम्बहेतुतया संयोगविशेषावश्यकत्वे प्रतिविम्बका ल्पना व्यर्था प्रतिविम्बकार्य स्यार्थज्ञानादेः संयोगविशेषादेव सम्भवादिति। मैवम् । बुद्धौ चैतन्यप्रतिविम्बश्चैतन्यदर्शनार्थ कल्पाते दर्पणे मुखप्रतिविम्बवत् । अन्यथा कर्मकर्ट विरो 'धेन स्वस्य साक्षात् खदर्शनानुपपत्तः। अयमेव च चित्प्रति'विम्बो बुद्धौ चिच्छायापत्तिरिति चैतन्याध्यास इति चिदावेश इति चोचते। यश्च चैतन्ये बुड़ : प्रतिविम्बः स चारूढ़विषयैः सह बुद्धे नार्थमिष्यते। अर्थाकारतयैवार्थग्रहणस्य बुद्दे: स्थले दृष्टत्वेन तां विना संयोगविशेषमात्रेणार्थभानस्य पुरुघेऽप्यनौचित्यात्। अर्थाकारस्यैवार्थग्रहगाशब्दार्थत्वाचति । म चाकारः पुरुषे परिणामो न सम्भवतीत्यर्थात् प्रतिविम्बरूप एव पर्यवस्यतीति दिक। स चायमन्योऽन्य प्रतिविम्बो योगभाष्ये व्यासदेवैः सिद्धान्तितः। चितिशक्तिरपरिणामिचप्रतिसंक्रमा च परिणामिन्चर्थ प्रतिसंक्रान्ते व तवृत्तिमनुपतति तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिहत्तेरनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायत इत्यादिना। योगवाति के चैतहिस्तरतोऽस्माभिः प्रतिपादितम् । कश्चित् तु बुद्विगतया चिच्छायया बुद्धेरेव सर्वार्थज्ञाटत्वमिछादिभिज्ञानस्य सामानाधिकरण्यानुभवादन्यस्य ज्ञानेनान्यस्य प्रवृत्त्यनौचित्याचे त्याह। तदात्माज्ञानमूलकत्वादुपेक्षणीयम्। एवं हि बुद्ध रेव ज्ञात्व चिदवसानो भोग इत्यागामिसूत्रहयविरोधः पुरुष प्रमाणाभावश्च पुरुषलिङ्गस्य भोगस्य बुद्धावेव स्वीकारात् । न च प्रतिविम्बान्यथानुपपत्त्या विम्बभूतः पुरुषः सेहर तौति वाचम् । अन्योऽन्याश्रयात् पृथग्विम्मसिद्धो बुद्धिस्थ चैतन्यस्य प्रतिविम्ब तामितिः प्रतिविम्बतासिद्धौ च तत्प्रतियोगितया विम्बसिद्धिरिति। अस्न मते च
For Private And Personal Use Only