________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मथमोऽध्यायः।
सिद्ध रूपबोड़ त्वादाक्यार्थोपदेशः ॥१८॥ हिरण्यगर्भादीनां सिद्धरूपस्य यथार्थस्य बोद्धृत्वात् तहक्तकायुर्वेदादिप्रामाण्येनावताच्चैषां वाक्यार्थोपदेशः प्रमाणमिति शेषः ॥ ८॥
ननु पुरुषस्य चेत् सन्निधिमात्रेण गौणमधिष्ठात्व तर्हि मुख्यमधिष्ठाटत्व कस्येत्याकाझायामाह।
अन्तःकरणस्य तटुज्वलितत्वाल्लोहवदधिठाटत्वम् ॥६६॥
अन्तःकरणस्यानुपचरितमधिष्ठाटत्व सङ्कल्यादिहारक प्रत्य तव्यम्। नन्वधिष्ठाटत्व घटादिवदचेतनस्य न युक्त तत्राह। लोहवत् तदुज्ज्वलितत्वादिति। अन्तःकरणं हि तप्तलोहवञ्चतनोज्ज्वलितं भवति। अतस्तस्य चेतनायमानतयाधिष्ठाटत्व घटादिव्याहत्तमुपपद्यत इत्यर्थः। नन्वं वं चैतन्ये नान्त:करणस्योज्ज्वलने चितैः सङ्गित्वमग्निवदेव स्यादि. ति चेन्न। नित्योज्ज्वलचैतन्यसंयोगविशेषमात्रस्य संयोगविशेषजन्यचैतन्यप्रतिविम्ब स्यैवान्तःकरणोज्ज्वलनरूपत्वात्। न तु चैतन्यमन्तःकरणे संक्रामति येन सङ्गिता स्यात् । अग्न रपि हि प्रकाशादिकं न लोहे संक्रामति। किन्वग्नियोगविशष एव लोहस्योज्ज्वलनमिति। नन्व वमपि संयोगेन परिणामि: त्वमिति चेन्न सामान्यगुणातिरिक्तधर्मोत्यत्तावेव परिणामव्यवहारादिति। अयं च संयोगविशेषोऽन्तःकरणस्य व सत्त्वो. ट्रेकरूपात् परिणामाझ्यतौति फलबलात् कलप्यते पुरुषस्यापरिणामित्वेन संयोग तबिमित्तकविशेषासम्भवादिति । अयमेव च संयोगविशेषो बुद्यात्मनोरन्चोऽन्यप्रतिविम्बने हेतुः ।
For Private And Personal Use Only