________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्। मात्रेण प्रकृतमहत्त्वरूपेण परिणमनम्। इदमेव च खोपाधिस्रष्टत्वमित्यर्थः । तथा चोक्तम् ।
निरिच्छे संस्थिते रत्ने यथा लोहः प्रवर्तते । सत्तामात्रेण देवेन तथा चायं जगज्जनः । अत आत्मनि कर्तत्वमकर्तृत्वं च संस्थितम् । निरिच्छत्वादक सौ कर्ता सन्निधिमानतः ॥ इति। तदैक्षत बहु स्यामित्यादिश्रुतिस्तु कूलं पिपतिषतोतिवदगौणी प्रकृतेरासबबहुतरगुण संयोगात् । अथवा बुट्विपूर्वसृष्टिविषयमेतादृशवाक्यजातं न त्वादिसर्गपरं तस्याबुडिपूर्वकत्वस्मरणादिति भावः । यथा कौमें ।
इत्येष प्राकृतः सर्गः सङ्घ पात् कथितो मया ।
अबुद्धिपूर्वकस्त्वष ब्रामों सृष्टि निबोधत ॥ इति। अस्य च वाक्यस्यादिपुरुषबुद्धाजन्यत्वेन सोचे गौरवमिति ॥८६॥ __ न केवलं सदावेव पुरुषस्य संयोगमात्रेण स्रष्टत्वादिकमपि त्वन्येष्वपि सङ्कल्पादिपूर्वकेषु भूतादिष्वखिलेषु विशेषकार्येष्वपि सर्वपुरुषाणामित्याह ।
विशेषकार्येष्वपि जीवानाम् ॥१७॥
अधिष्ठासत्व सन्निधानादित्यनुषज्यते। अन्तःकरणोपलचितस्यैव जीवशब्दार्थत्व षष्ठाध्याये वक्ष्यति तथा च विशेषकार्य विसर्गाख्ये व्यष्टिसृष्टावपि जौवानामन्तःकरणप्रतिविम्बितचेतनानां सविधानादेवाधिष्ठातत्व न तु केनापि व्यापारेण कूटस्थचिन्मात्ररूपत्वादित्यर्थः ॥ ८७ ॥
ननु चेत् सदा सर्वज्ञ ईश्वरो नास्ति तर्हि वेदान्तमहा. वाक्यार्थस्य विवेकस्योपदेशेऽन्धपरम्पराशयाप्रामा प्रमज्येत तनाह।
For Private And Personal Use Only