________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
प्रतिविम्बितवृत्तीनां विषयो मेय उच्यते । साक्षाहर्श नरूपं च साक्षित्व वक्ष्यति स्वयम् ॥ अतः स्यात् कारणाभावाद वृत्तेः साक्ष्येव चेतनः । विष्णादेः सर्वसाक्षित्व गोणं लिङ्गाद्यभायतः ॥ इति ॥८॥ ननु। यथा प्रकाशयत्ये कः कृत्स्नं लोकमिमं रविः । क्षेत्र क्षेत्री तथा सत्न प्रकाशयति भारत ! ॥
इत्यादिवाक्येषपमानादि प्रकृतिपुरुषविवेक प्रमाणमुप. न्य स्तं तत् कथमुच्यते त्रिवि मति तत्राह।
तत्सिडी सर्वसिद्धेर्नाधिक्यसिद्धिः ॥ ८८॥
विविधप्रमाणसिद्धी च सर्वस्यार्थस्य सिद्धेन प्रमाणाधिक्यं सिध्यति गौरवादित्यर्थः । अतएव मनुनापि प्रमाणत्रयमेवोपन्यस्तम्। प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । क्यं सुविदितं कायं धर्मशद्धिमभीमता ॥
इति । उपमानैतिह्यादीनां चानुमानशब्दयोः प्रवेशः । अनुपलब्धयादीनां च प्रत्यक्ष प्रवेश इति। उक्तवाक्ये चेदमनुमानमभिप्रेतम् । पापादतलमस्तकं बत्न स्वव्यतिरिक्त - नैकेन प्रकाश्यं स्वयमप्रकाशत्वात् त्रैलोक्यवदिति। तेजश्चैत. न्यसाधारणं च प्रकाशत्वमखण्डोपाधि: प्रकाशव्यवहारनिया. मकतया सिद्ध इति ॥ ८८॥
पुरुषनिष्ठा प्रमति मुख्यसिद्धान्तमाश्रित्य प्रमाणानां विशे. पल क्षणानि वक्त सुपक्रमते।
For Private And Personal Use Only