________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
न च शब्दजन्य' शब्दान्तरमेव प्रतिध्वनिरिति वाच्यं स्फटि क्लौहित्यादेरपि जपासत्रिकर्षजन्यतापत्त्या प्रतिविम्बमिथ्यात्वसिद्दान्तचतेरिति । प्रतिविम्बश्च बुडेरेव परिणामविशेषो विम्बाकारो जलादिगत इति मन्तव्यम् । केचित् तु वृत्तों प्रतिविम्बितं सदेव चैतन्य वृत्ति प्रकाशयति तथा वृत्तिगतप्रतिविम्व एव वृत्ती चैतन्यविषयता न तु चैतन्य वृत्तिप्रतिविम्बोऽस्तीत्याहुः । तदसत् । उपदर्शितशास्त्रविरोधेन केवलतर्कस्याप्रयोजकत्वात् । विनिगमनाविरहेगा वृत्तिचैतन्ययोरन्योन्यविषयताख्य सम्बन्धरूपतयान्योन्यस्मिन्नन्योन्य प्रतिविम्बसिद्धेश्व | बाह्यस्थलेऽर्थाकारतया एव विषयतारूपत्वसिद्धान्तरेऽपि तत्तदर्थाकारताया एव विषयतात्वौचित्याच्चेति । ये तु तार्किक ज्ञानस्य विषयतां नेच्छन्ति तन्मते ज्ञानव्यक्तीनामनुगमकर्माभावेन घटविषयकं पटविषयकं ज्ञानमित्याद्यनुगतव्यवहारानुपपत्तिः । केचित् तु तार्किका अनयैवानुपपत्त्या विषयतामतिरिक्तपदार्थमाहुः । तदप्यसत् । चनुभूयमानाम श्रीकारतां विहाय विषयतान्तरकल्पने गौरवादिति । ननु तथापि स्वस्वोपाधिवृत्तिरूपैव वृत्तिचैतन्ययोरन्योन्यविषयतास्तु खोमाधिवृत्तित्वेनैवानुगमादलमा काराख्यप्रतिविम्बइयेनेति चेन्न । प्रतिविम्बं विना खत्वस्यापि दुर्वचत्वात् । स्वत्वं हि स्वभुक्तवृत्तिवामनावत्त्वम् । भागश्च ज्ञानम् । तथा च विषयतालक्षस्य विषयसामग्रौघटितत्व नात्माश्रयः । तस्मादचैतन्यचैतन्ययोरन्योन्यविषयतारूपोऽन्योन्यस्मिन्नन्योन्यप्रतिविम्बः सिद्धः । अधिकन्तु योगवाति के द्रष्टव्यमिति दिक् । अत्रायं प्रमावादिविभागः ।
प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव नः । प्रमार्थाकारवत्तीनां चेतने प्रतिविम्बिनम् ॥
For Private And Personal Use Only