________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
१५
पाविनाशी न तु कर्मण इव मुखादिकं भावरूपं कार्य येन नाशितया दुःखदं तत् स्यात् ॥ कर्मणश्च दृष्टकारणं विना न साधादेवाविद्यानाशकत्वं घटत इति । अतो ज्ञानस्याचय. त्वाब समानत्व ज्ञानकर्मणोरित्यर्थः। ज्ञानाब पुनरावृत्तिः सम्भवति। अविवेकाख्यकारणनाशादिति सिद्धम्। तदेवं विवेकज्ञानमेव साक्षाज्ञानोपाय इत्यताम् ॥ ८६ ॥ ___ इदानी विवेकज्ञानस्यापि साक्षादुपायाः प्रमाणानि परीश्यन्ते । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्य इत्यादिश्रुतिभिहि प्रमाणत्रयेणात्मज्ञानमित्यवगम्यते । कर्मादिकं त्वन्यन्मन यादिप्रमाणानां शुद्धयादिकरमेवेति ।
हयोरकतरस्य वाप्यसन्निकष्टार्थपरिच्छित्तिः प्रमा तत्साधकतमं यत् तत् त्रिविधं प्रमाणम्
व्यसनिकष्टः प्रमातर्यनारूढ़ोऽनधिगत इति यावत्। एवंभूतस्यार्थस्य वस्तुनः परिच्छित्तिरवधारणं प्रमा सा च इयोबुद्धिपुरुषयोरुभयोरेव धर्मो भवतु । किं वैकतरमावस्योभयथैव तस्या: प्रमाया यत् साधकतमं फलायोगव्यवच्छिन्नं कारणं तञ्च विविधं वक्ष्यमाणरूपेणेत्यर्थः । स्मृतिव्यावर्त नायानधिगतति। भ्रमव्यावर्त्तनाय वस्त्विति । संशयव्यावर्त्तनाय त्ववधारणमिति। अत्र यदि प्रमारूपं फलं पुरुषनिष्ठमात्रमुच्यते तदा बुद्दित्तिरेव प्रमाणम् । यदि च बुद्धिनिष्ठमात्रमुच्यते तदा तूकेन्द्रियसन्निकर्षादिरेव प्रमाणम्। पुरुषस्तु प्रमासात्येव न प्रमातेति । यदि च पौरुषेयबोधो बुद्धित्तिश्चोभयममि प्रमो. यते तदा तूत मुभयमेव प्रमाभेदेन प्रमाणं भवति। चक्षुरादिषु त प्रमाणव्यवहारः परम्परयैव सर्वथेति भावः। पात
For Private And Personal Use Only