SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । सदा प्रकाशवरूपत्व ऽपि यथा नेकदा विश्वप्रकाशत्व तथा वक्ष्यामः ॥ ७५ ॥ ___ प्रकृतयुगपत्कारणत्वोपपत्तये विभुत्वमपि प्रतिपाद. यति। . परिच्छिन्नं न सर्वोपादानम् ॥ ७६ ॥ सर्वोपादानं प्रधानं न परिच्छिन्नं व्यापकमित्यर्थः । सर्वोपादानत्वमत्र हेतुगर्भविशेषणम्। परिच्छिन्ने तदसम्भवादिति। ननु प्रतेरपरिच्छिन्नव नोपपद्यते प्रतिहिं सत्त्वादिगुणवयादतिरिक्ता नु भवति सत्त्वादीनामतधर्मत्वं तद्रूपत्वादित्या. गामिसूत्रात्। योगसूत्रभाष्याभ्यां स्पष्टमवतत्वाञ्च । तेषां च सत्त्वादीनां लघुत्वचलत्वगुरुत्वादयो धर्मा वक्ष्यमाणा विभुत्वं सति विरुध्यन्ते सृध्यादिहेतवः संयोगविभागादयश्च नोपपद्यन्त इति। अत्रोच्यते । परिच्छिन्नत्वमत्र दैशिकाभावप्रतियोगितावच्छेदकावच्छिन्नत्वं तदभावश्च व्यापकत्वम् । तथा च जगत्कारणत्वस्य दैशिकाभावप्रतियोगितानवच्छेदकत्वमेवेति प्रकृतेर्व्यापकत्वमिति पय॑ वसितम्। यथा प्राणस्य स्थावरजङ्गमाद्यखिल शरीरव्यापकत्व प्राणत्वसामान्येनोच्यते प्राणव्यक्तीनां सर्वदेहसम्बन्धात्। तहत् प्रकृतेर्व्यापकत्वमिति। प्रकृतेरक्रियैकत्वादिकं च साधयंवैधय॑सूत्र प्रतिपादयिष्यामः न केवलं सर्वोपादानत्वात् । अपि तु । तदुत्पत्तिश्रुतेश्च ॥ ७७॥ तेषां परिच्छिन्नानामुत्पत्तिश्रवणाञ्च । अथ यदल्प तन्मय मित्यादिश्रुतिषु मरणधर्मकत्वेन परिच्छिन्नस्योत्पत्त्यवगमात्। श्रुत्यन्तरेभ्यश्चेत्यर्थः ॥ ७७ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy