________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
सर्गप्रलयनिर्मुक्त विद्यां वै पञ्चविंशकम् ॥
इति मोचधर्मे प्रकृतिपुरुषयोरविद्याविद्येति वचनं तत् तदुभयविषयतयोपचरितमेव परिणामित्वेन हि पुरुषापेक्षया प्रकृतिरसतौति तस्या व्यविद्याविषयत्वमुक्तम् । एवमेव तस्मिन् प्रकरणे स्वस्वकारणापेचया भूतान्तं कार्य्यजातमविद्येत्यक्त' स्वस्वापेचया च स्वस्वकारणं विद्येति । पुरुषस्य परिणामरूपं जगदुपादानत्वं तु प्रक्कृत्यु पाधिकमेव कर्त्तृत्वादिवच्छ्रुतिस्मृत्योरुपासार्थमेवानूद्यते । अन्यथा स्थूलमनखइखमित्यादिश्रुतिविरोधापत्तेरिति मन्तव्यम् । मायाशब्देन च प्रकृतिरेवोच्चत मायां तु प्रकृतिं विद्यादिति श्रुतौ ।
।
कास्मान्मायो सृजते विश्वमेतत्
तस्मिंश्चान्यो मायया सन्निरुधः ।
इति पूर्व प्रक्रान्तमायायाः प्रकृतिस्वरूपतावचनात् । सत्त्वं रजस्तम इति प्राकृतं तु गुणत्रयम् । एतन्मयी च प्रकृतिर्माया या वैष्णवी श्रुता ॥
पूज
लोहितवंत कृष्णेति तस्यास्तादृग्बहुप्रजाः । इत्यादिस्मृतिभ्यश्च । न तु ज्ञाननाश्याविद्या मायाशब्दार्थो नित्यत्वानुपपत्तेः । किञ्चाविद्याया द्रव्यत्वे शब्दमात्त्रभेदो गुणत्वं च तदाधारतया प्रकृतिसिद्धिः पुरुषस्य निर्गुणत्वादिभ्यः । अथ द्रव्यगुणकर्मविलक्षणैवास्माभिरविद्या वक्तव्येति चेन तादृक् पदार्थाप्रतीत रुक्तत्वादिति ॥ ६८ ॥
नन्वेवं चेत् प्रकृतिपुरुषाद्यनुमानप्रकारोऽस्ति तर्हि सर्वेषामेव कथं विवेकमननं न जायते तत्राह ।
अधिकारिचैविध्यान्न नियमः ॥ ७० ॥
श्रवणादाविव मननेऽप्यधिकारिणस्त्रिविधा मन्दमध्य
For Private And Personal Use Only