SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'ફ્ सांख्यदर्शनम् । नन्वेवं पञ्चविंशतितत्त्वानीति नोपपद्यते महत्तत्त्वकारणाव्यक्तापेचयापि जड़तत्त्वान्तरापत्तेरित्याशयेन मूलसमाधान माह । समानः प्रकृतेर्द्वयोः ॥ ६६ ॥ वस्तुतस्तु प्रकृतेर्मूलकारणविचारे द्वयोर्वादिप्रतिवादिनोरावयोः समानः पक्षः । एतदुक्तं भवति यथा प्रकृतेरुत्पत्तिः श्रूयते एवमविद्याया श्रपि । व्यविद्या पञ्चपर्वेषा प्रादुर्भूता महात्मनः । इत्यादिवाक्यः । अत एकस्या अवश्य गौण्युत्पत्तिर्वक्तव्या । तत्र च प्रकृतेरेव पुरुषसंयोगादिभिरभिव्यक्तिरूपा गौण्य - त्पत्तिर्युक्ता । संयोगलक्षणोत्पत्तिः कथ्यते कर्मज्ञानयोरिति कर्मवाको प्रकृतिपुरुषयोर्गौण्योत्पत्तिस्मरणात् । व्यविद्यायाश्च क्वापि गौणोत्पत्त्यश्रवणात् तस्या अनादितावाक्यानि तु प्रवाहरूपेणैव वासनाद्यनादिवाक्यवद व्याख्येयानीति । श्रविद्या च मिथ्याज्ञानरूपा बुद्धिधर्म इति योगे सूत्रितमतो न तत्त्वाधिक्यम् । अथवा द्वयोः प्रकृतिपुरुषयोः समान एव न्याय इत्यर्थः । यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥ इत्यादिवाक्यैः पुरुषस्याप्युत्पत्तिश्रवणादिति भावः । तथा च पुरुषस्येव प्रकृतेरपि गौस्य वोत्पत्तिः । नित्यत्व श्रवणादित्यपि समानमिति । तस्मात् प्रकृतिरेवोपादानं जगतः प्रकृतिधर्मश्वाविद्या जगत्रिमित्तकारणं तथा पुरुषोऽपीति सिद्धम् । यत् तु । अविद्यामाहुरव्यक्त' सर्गप्रलयधर्मिणम् । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy