________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
५
प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ गुणसाम्यात् ततस्तस्मात्। क्षेत्रज्ञाधिष्ठितान्मुने ।। गुणव्यञ्जनसम्भूतिः सर्गकाले हिजोत्तम ! ॥
इत्यादिक्षेत्रज्ञाधिष्ठानं चासमाप्तपुरुषार्थस्य संयोगमात्र गुणव्यञ्जनं महत्तत्वं कारणतया त्रिगुणात्मप्रधान व्यञ्जकत्वादिति। तदेवमचाक्षुषाणामनुमानेन सिद्विरुक्ता ॥ ६६ ॥ __ इदानीं सर्वकारणत्वोपपत्तये प्रतिनित्यत्वमुपपाद्यते पुरुषकौटस्थ्यसिद्धार्थम् ।
मूले मूलाभावादमूलं मूलम् ॥ ६७॥ त्रयोविंशतितत्त्वानां मूलमुपादानं प्रधानं मूलशून्यम् । अनवस्थापत्त्या तत्र मूलान्तरासम्भवादित्यर्थः ॥ ६ ॥
ननु । तस्मादव्यक्तमुत्पत्रं त्रिगुणं हिजसत्तम ! ।
इत्यादिना प्रधानस्यापि पुरुषादुत्पत्ति श्रवणात् पुरुष एव प्रकृतमूलं भवतु पुरुषस्य नित्यतया च नानवस्थाविद्याहारकतया च न पुरुषकौटस्थ्यहानिः । तथा च स्मर्यते ।
तस्मादज्ञानमूलोऽयं संसारः पुरुषस्य हि। इति। इत्याशझ्याह। पारम्पर्येऽप्येकन परिनिष्ठेति संज्ञामात्रम्
___ अविद्यादिहारण परम्परया पुरुषस्य जगन्मूलकारणत्वे. ऽप्येकस्मिवविद्यादौ यत्र कुत्रचित्रित्य द्वार परम्परायाः पर्यवसानं भविष्यति पुरुषस्थापरिणामित्वात् । अतो यत्र पयंवसानं सैव नित्या प्रकृतिः। प्रततिरिह मूलकारणस्य संज्ञा मानमित्यर्थः ॥ ६८ ॥
For Private And Personal Use Only