________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् । संहतपरार्थत्वात् पुरुषस्य ॥ ६६ ॥ संहननमारम्भकसंयोगः स चावयवावयव्यभेदात् प्रक. तिकार्य साधारणः । तथा च संहतानां प्रकृतितका-यां परार्थत्वानुमानेन पुरुषस्य बोध इत्यर्थः । तद्यथा विवादास्पदं प्रकृतिमहदादिकं परार्थं खतरस्य भोगापवर्गफलकं संहतत्वात् शय्यासनादिवदित्यनुमानेन प्रकृतेः परोऽसंहत एव पुरुषः सिध्यति तस्यापि संहतत्वेनवस्थापत्तेः। पातञ्जले च पराथं संहत्य कारित्वादिति सूत्रकारणानुमानं कृतं तत् तु यथाश्रुतमेवान्त्यावयवसाधारणम्। इतरसाहित्य नार्थक्रियाकारित्वस्यैव संहत्यकारिताशब्दार्थलात्। पुरुषस्तु विषयप्रकाशरूपायां स्वार्थक्रियायां नान्यदपेक्षते नित्य प्रकाशरूप. वात्। पुरुषस्यार्थसम्बन्धमान बुद्धिवृत्त्यपेक्षणात् । सम्बन्धस्तु नासाधारण्यर्थक्रियेति। अत्र च न वा अरे सर्वस्य कामाय सर्व प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं भवतीत्यादिश्रुतिस्मतयोऽनुकूलताः। अन्यच्च मुखादिमत् प्रधानादिकं यदि वस्य सुखादिभोगार्थ स्यात् तदा तस्य साक्षात् स्वजेयत्वे कर्मकर्टविरोधो न हि धर्मिभानं विना सुखस्य भानं सम्भवति। अहं सुखौत्य वं सुखानुभवादिति। अपि च संहन्यमानानां बहनां गुणानां तत्कार्याणां चानेकविकाराणामनेकचैतन्य गुणकल्पनायां गौरवेण लाघवादेक एव चित्प्रकाशरूपः पुरुषः सर्वसंहतेभ्यः परः कल्पयितु युज्यत इति। अनेन सूत्रेण निमित्तकारणतया पुरुषानुमानमुक्तं पुरुषार्थस्याखिलवस्तुसंहनननिमित्तत्ववचनात् । अत एव सर्गाद्युत्पन्न पुरुषं प्रकृत्य विष्णु पुराणादौ स्मयते ।
निमित्तमानमेवासो सृज्यानां सर्गकर्मणि।
For Private And Personal Use Only