________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
सम्बन्ध विषयकत्वधमनिरासार्थं तु सुखिदुःखिमूढेभ्यः पुरुषो विवियते शास्त्रेष्विति। शब्दादिषु च सुखाद्यात्मताव्यवहार एकार्थसमवायात् । अस्तु वा शब्दादिषु साक्षादेव सुखमुक्तप्रमाणेभ्यः । विषयगतसुखादेश बुद्धिमावग्राह्यत्वं फलबलात् । यत् तु विषयासम्प्रयोगकाले शान्तिसुखं साक्विक मुषत्यादौ व्यज्यते तदेव बुद्धिधर्म यात्मसुखमुच्यत इति । यद्यपि वैशेषिकाद्या अपि तार्किकाः प्रपञ्चेऽन्यथापि कार्यकारणव्यवस्थामनुमिमते तथापि बहुलश्रुतिस्मृत्यु पोदबलनेनास्माभिरनुमितैव व्यवस्था मुमुक्षुभिरुपादेया मूलशैथिल्यदोषेण परानुमानानां दुर्बलत्वात्। अत एव तर्काप्रतिष्ठानादिति वेदान्तसूत्रणाप्रतिष्ठादोषतः केवलतर्कोऽपास्तः। तथा मनुनापि ।
पार्षे धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्तणानुसन्धत्ते स धर्म वेद नेतरः । इति वेदाविरुइतकं स्यैवार्थनिचायकत्वमुक्तम् । तस्मात् । श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यचोपपत्तिभिः ।
इत्यादिवाक्येभ्यः श्रवणसमानार्थकमेव मननं बलवत् । अन्धाकारं मननं तु परेषां दुर्बलम् । एवं पुरुषेऽपि सुखदुःखादिमत्त्वेन तेषामनुमान बहुलश्रुत्यादिविरोधाद दुर्बलमिति दिक् । प्रतिगतविशेषं च पश्चाहक्ष्यामः ॥६५॥
नन्वखिलजड़ भ्यः पुरुषविवेक एव मुक्ती हेतुस्तत् किमर्थ जड़ानामन्योऽन्य विवेकोऽत्र दर्शित इति चेत् । प्रकृत्यादि. तत्त्वोपासनया सत्त्वशुद्दाथ विवेकस्याप्यपेक्षितत्वादिति । कार्यकारणमुद्रया प्रकृतिपर्यन्तस्थानुमानेन विवेकतः सिद्धिमुक्का यथोक्त कार्यकारणभावशून्यस्य पुरुषस्य प्रकारान्तरेणानुमानतस्तथा सिधिमाह।
For Private And Personal Use Only