________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्। ततः प्रकृतेः ॥ ५॥
- ततो महत्तत्त्वात् कार्यात् कारणतया प्रकृतेरनुमानेन बोध इत्यर्थः। अन्तःकरणसामान्यस्यापि कार्यत्वं तावदेकदा पञ्चेन्द्रियन्नानानुत्पत्त्वा मध्यमपरिमाणतया देहादिवदेव सिडं श्रुतिस्मृतिमामाख्याच । तस्य च प्रकृतिकार्यत्वेऽयं प्रयोगः । सुखदुःखमोहधर्मिणौ बडिः सुखदुःखमोहधर्मकद्रव्यजन्या कार्यवे सति सुखदुःखमोहात्मकत्वात् कान्तादिवदिति कारणगुणानुसारेणैव कार्य गुणौचित्यं चालानुकूलस्तर्कः श्रुतिस्मृतयोऽपौति मन्तव्यम् । ननु विषयेषु सुखादिमत्त्वे प्रमाण नास्ति । अहं सुखोल्यायेवानुभवात् तत् कथं कान्तादिविषयो दृष्टान्त इति धेन। सुखाद्यात्मकबुद्धिकार्यतया सक्सुखं चन्दनसुखमित्याद्यनुभवेन च विषयाणामपि सुखादिधर्मकत्व. सिद्धेः श्रुतिस्मृतिप्रामाण्याच। किञ्च यस्यान्वयव्यतिरेको सुखादिना सह दृश्येते तस्यैव सुखाद्युपादानत्वं कल्पाते। तस्य निमित्तत्व परिकल्पान्यस्योपादानत्वकल्पने कारणइयकल्पनागौरवात्। अपि चान्योऽन्यसंवादेन प्रत्यभिज्ञया च विषयेषु सर्वपुरुषसाधारणस्थिरसुखसिद्धिः । तत्सुखग्रहणायास्मन्वये वृत्तिनियमादिकल्पनागौरवं च फलमुखत्वान्न दोषावहम् । अन्यथा प्रत्यभिज्ञयावयव्य सिद्धिप्रसङ्गात् तत्कारणादिकल्पनागौरवादिति । विषयेऽपि सुखादिकञ्च मार्कण्डेये प्रोक्तम्।
तत् सन्तु चेतस्यथवापि देहे
सुखानि दुःखानि च किं ममात्र । इति। अहं सुखीत्यादिप्रत्ययस्तु । अहं धनौत्यादिप्रत्ययवत् स्वखामिभावाख्यसम्बन्धविषयकस्तेषां प्रत्ययानां समवाय
For Private And Personal Use Only