SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम्। आद्यतिरेकमात्रस्य तत्कारणतया प्रसाध्यत्वात्। अत्र चायमनुकूलस्तक: बहु स्यां प्रजायेयेत्यादिश्रुतिस्मृतिभ्यस्तावद्भूतादिसृष्टेरभिमानपूर्वकत्वाद्बुद्धित्तिपूर्वकसृष्टौ कारणतयाभिमान: सिद्धः। तत्र चैकार्थसमवाय प्रत्यासत्त्य वाभिमानस्य सृष्टिहेतुत्व लाघवात् कल्पात इति। नन्वेवं कुलालाहकारस्थापि घटोपादानत्वापत्त्या कुलालमुक्तौ तदन्तःकरणनाशे तनिर्मितघटनाशः स्यात्। न चैतद्युक्तम् । पुरुषान्तरेण स एवायं घट इति प्रत्यभिज्ञायमानदादिति। मैवम् । मुक्तपुरुषभोगहेतुपरिणामस्यैव तदन्तःकरण मोक्षोत्तरमुच्छेदात्। न तु परिणामसामान्यस्यान्तःकरणखरूपस्य वोच्छेदः कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वादिति योगसूत्र मुक्तपुरुषोपकरणस्याप्य न्य पुरुषार्थसाधकत्वसिद्धेरिति । अथवा घटादिष्वपि हिरण्यगर्भाहकार एव कारणमस्तु न कुलालाद्यहङ्कारस्तथापि सामान्यव्याप्ती न व्यभिचारः समष्टिबुयायपादानिकैव हि सृष्टिः पुराणादिषु सांख्ययोगयोग प्रतिपाद्यते न तु तदंशव्यष्टिबुद्घायुपादानिका यथा महापृथिव्या एव स्थावरजङ्गमाद्युपादान त्वं न तु पृथिव्यंशलोष्टादेरिति ॥३॥ तेनान्तःकरणस्य ॥ ६४॥ तेनाहङ्कारेण कार्येण तत्कारणतया मुख्यस्यान्तःकरणस्य महदाख्यबुझेरनुमानेन बोध इत्यर्थः। अत्राप्ययं प्रयोगः । अहङ्कारद्रव्यं निश्चयवृत्तिमद्रव्योपादानकं निश्चय कार्यद्रव्यत्वात् । यत्रैवं तत्रैवं यथा पुरुषादिरिति। अत्राप्ययं तर्कः सर्वोऽपि लोकः पदार्थवादी स्वरूपतो निश्चित्य पश्चादभिमन्यते। अहमहं मयेदं कर्त्तव्यमित्यादिरूपणेति तावत् सिहमेव । तत्राहकारद्रव्यकारणाकाङ्क्षायां कृत्योः कार्यकारण For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy