________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
४८
नियमः । वसरेणुमहत्त्वादाववयवबहुत्वादेरेव तैरपि हेतुत्वाभ्युपगमादिति दिक। इन्द्रियानुमानं चाकाशानुमानवद्दर्शनस्पर्शनवचनादिभिः प्रत्यक्षाभित्तिभिरेवेति तदत्र नोक्ताम् । तत्त्वान्तरेण तत्त्वान्तरानुमानानामेव प्रकतत्वादिति न न्य नता। तन्मात्राणां चोत्पत्तो योगमायोक्तप्रक्रियैव ग्राह्या । यथाहकाराच्छन्दतन्मात्रं तत्रचाहकारसहकताच्छब्दतमानाच्छन्दस्पर्श गुणकं स्पशतन्मात्रम्। एवं क्रमेणै कैकगुणरया तन्मावाण्य - त्पद्यन्त इति । या तु।
आकाशस्तु विकुर्वाणः स्पर्शमात्र ससर्ज ह। बलवानभवहायुस्तस्य स्पर्शो गुणो मतः ॥ इत्यादिना विष्णुपुराणे स्पर्शादितन्मात्रसृष्टिराकाशादिस्थलभूतचतुष्टयाटुक्ता। सा भूतरूपेण परिणमनरूपैव मन्तव्या । आकाशादौनि जलान्तानि हि स्थूलभूतानि खस्खोत्तरभूतरूपेण खानुगततन्मात्राः खोपष्टम्मत: परिणमयन्तीति
वाह्याभ्यन्तराभ्यां तैश्चाहकारस्य ॥ ६ ॥ बाह्याभ्यन्तराभ्यामिन्द्रियाभ्यां तैः पञ्चतन्मात्रैश्च कार्येस्तकारणतयाहङ्कारस्यानुमानेन बोध इत्यर्थः। अहङ्कारश्चाभिमानवृत्तिकमन्तःकरणद्रव्यं नत्वभिमानमात्र व्यस्यैव लोके द्रव्योपादानत्वदर्शनात्। सुषुस्यादावहङ्कारत्तिनाशेन भूतनाशप्रसङ्गाहासनाश्रयत्वेनैवाहाराख्यद्रव्यसिद्धेचेति । अत्रेस्थमनुमानम् । तम्मानन्द्रियायभिमानवद्रव्योपादानकान्यभिमानकार्य्यद्रव्यत्वात् । यत्रैवं तत्रैवम् । यथा पुरुषादिरिति । नन्वभिमानवद्रव्यमेवासिद्धमिति चेदह गौर इत्यादिवृत्त्यपादानतया चक्षुरादिवत् तसिः । अनेन चानुमानेन मन
For Private And Personal Use Only