SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४८ Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः ॥ इति विष्णुपुरादिभ्यः । अस्यायमर्थः तेषु तेषु भूतेषु तन्मावास्तिष्ठन्तीति कृत्वा धर्मधर्म्य भेदाद्द्रव्याणामपि तन्मावता स्मृता । ते च पदार्थाः शान्तघोरमूढाख्यैः स्थूलगतशब्दादिविशेषः शून्या एकरूपत्वात् । तथा च शान्तादिविशेषशून्यशब्दादिमत्त्वमेव भूतानां शब्दादितन्मात्रत्वमित्याशयः । अतोऽविशेषसंज्ञिता इति । शान्त सुखात्मकं घोरं दुःखात्मकं मूढं मोहात्मकम् । तन्मात्त्राणि च देवादिमालभोग्यत्व ेन केवलं सुखात्मकान्येव सुखाधिक्यादिति । अत्र दमनुमानम् । अपकर्षकाष्ठापनानि स्थूलभूतानि स्वविशेषगुणवद्रव्योपादानकानि स्थूलत्वाइटपटादिवदिति । अत्रानवस्थापत्त्या सूक्ष्ममादायैव साध्यं पर्व्यवस्यति । व्यनुकूलतर्कश्चात्र कारणगुणक्रमेण कार्य्यगुणोत्पत्तेर्बाधिक व्यतिरेकेणापरिहार्यत्वम् । श्रुतिस्मृतयश्चेति । प्रकृतेः शब्दस्पर्शादिमत्त्व तु बाधकमस्ति । शब्दस्पर्शविहीनं तद्रूपादिभिरसंयुतम् । त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ॥ इति विष्णुपुराणादिवाक्यजातम् । बुद्धाहङ्कारयोश्च शब्दस्पर्शादिमत्त्व भूतकारणत्वश्रुतिस्मृतय एव बाधिकाः सन्ति । बाह्येन्द्रियग्राह्यजातीयविशेषगुणवत्त्वस्यैव भूतलक्षपत्वेन तयोरपि भूतत्वापत्त्या स्वस्य स्वकारणत्वानुपपत्तेरिति । नन्ववं कारणद्रव्येषु रूपाद्यभावे तन्मात्ररूपादेः किं कारणमिति चेत् खकारणद्रव्याणां न्यूनाधिकभावेनान्योऽन्य संयोगविशेष एव हरिद्रादीनां संयोगस्य तदुभयारब्धद्रव्ये रक्तरूपादिहेतुत्वदर्शनात् । दृष्टानुसारेण खाश्रय हेतु संयोगानामेव रूपादिहेतुत्वसम्भवे तार्किकाणां परमाणुषु रूपकल्पनं तु हेयम् । वजातीयकारण गुणस्यैव कार्यगुणारम्भकतेति तु तेषामपि न For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy