SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः। निषदादिष्वपि । अष्टौ च प्रकृतयः कारिकया व्याख्याताः। मूलप्रकृतिरविवतिर्महदाद्याः प्रकृतिविकतयः सप्त । षोडशकस्तु विकारो न प्रकृतिनं विकृतिः पुरुषः ॥ इति । एकमेवाद्वितीयं तत्त्वमिति श्रुतिस्मतिप्रवादस्तु सर्वतत्त्वानां पुरुषे विलापनेन शक्तिशक्तिमदभेदेनेल्यविरोध: । लयस्तु सूक्ष्मीभावेनावस्थानं न तु नाश इति तदुक्तम् । बासौज्ञानमयोऽप्यर्थ एकमेवाविकल्पितम्। अविकल्पितमविभक्तम् । एतच्च ब्रह्ममीमांसाभाष्येऽहेतप्रसङ्गतो विस्तरेणोपपादितम् । विशेषस्वयं यत् सेश्वरवादेन्यतत्त्वानां तत्रैवाविभागादीवरचैतन्यमेवैकं तत्त्वम् । निरीखस्वादे तु विवेणिवदन्योन्याविभक्त तयैकस्मिन् कूटस्थे तेजोमण्ड लवदादित्यमण्डले प्रकृत्याख्य सूक्ष्मावस्थया महदादेरविभागादात्मैवैकं तत्त्वकिति तथा च वक्ष्यति। नाईतयुतिविरोधो जातिपरत्वादिति ॥ ६१ ॥ एतेषु पदार्थेष्वचाक्षुषाणामनुमानेन बोधं प्रतिपादयति सूत्रजातन। स्थूलात् पञ्चतन्मात्रस्य ॥ १२॥ बोध इत्यनुवर्तते स्थलं तावञ्चाक्षुषमेव तञ्च सन्मावकार्यतयोक्तम् । ततः स्थूलभूतात् कार्यात् तत्कारणतया तन्मात्रानुमानेन स्थलविवेकतो बोधः इत्यर्थः। आकाशसाधारण्याय स्थूलत्वमत्र बाह्येन्द्रियग्राह्यगुणकत्व शान्तादिविशेषवत्त्वं वा। तन्मात्राणि च यज्जातीयेषु शान्तादिविशेषत्रयं म तिष्ठति तज्जातीयानां शब्दस्पर्शरूपरसगन्धानामाधारभूतानि सूक्ष्मद्रव्याणि स्थूलानामविशेषाः। तस्मिंस्तस्मिंस्तु तन्मात्रास्तेन तम्मानता स्मता। For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy