________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
84
सांख्यदर्शनम् ।
हि काय्र्यसत्वादिरूपाः पुरुषोपकरणतया गुणाय भवन्तौति । तदत्र प्रकृतेः स्वरूपमेवोक्तम् । अस्या विशेषस्तु पश्चादक्ष्यते । प्रकृतेः कार्य्यो महान् महत्तत्त्वम् । महदादीनां स्वरूपं विशेषश्च वक्ष्यते । महतव कार्योऽहङ्कारः । श्रहङ्कारस्य कार्य्ययं तन्मात्राण्य भयमिन्द्रियं च । तत्त्रोभयमिन्द्रियं बाह्याभ्यन्तरभेदेनैकादशविधम् । तन्मात्राणां कार्य्याणि पञ्च स्थूलभूतानि । स्थलशब्दात् तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम् । पुरुषस्तु काव्यकारणविलक्षण इति । इत्येवं पञ्चविंशतिर्गणः पदार्थव्यूह ह एतदतिरिक्तः पदार्थो नास्तीत्यर्थः । अथवा सत्त्वादीनां प्रत्येक व्यक्त्यानन्त्य' गणशब्दो वक्ति । अयं च पञ्चविंशतिको गणो द्रव्यरूप एव । धर्मधर्म्यभेदात् तु गुणकर्मसामान्यादीनामत्रैवान्तर्भावः । एतदतिरिक्तपदार्थसत्त्वे हि ततोऽपि पुरुषस्य विवेक्तव्यतया तदसंग्रह न्यूनतापद्येत । एतेन सांख्यानामनियतपदार्थाभ्य ुपगम इति मूढप्रलाप उपेक्षणीयः । दिक्कालौ चाकाशमेव। दिक्कालावाकाशादिभ्य इत्यागामिस्वात् । एत एव पदार्थाः परस्परप्रवेशाभ्यां क्वचित् तन्त्र एकमेव क्वचित् तु षट् क्वचिश्च षोडश कचिच्च संख्या न्तरैरप्युपदिश्यन्ते । विशेषस्तु साधम्यवैधम्र्म्य मात्र इति मन्तव्यम् । तथा चोक्तं भागवते ।
ܘ
एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च ।
पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तच्त्वानि सर्वशः ॥ इति नानाप्रसंख्यानं तत्त्वानामृषिभिः कृतम् । सर्व न्याय्यं युक्तिमत्वादिदुषां किमशोभनम् ॥
1
इति । एते च पदार्थाः श्रुतिष्वपि गणिताः यथा गर्भोपनिषदि । अष्टौ प्रकृतयः षोडश विकारा इति । प्रश्नोपनियदि च पृथिवी च पृथिवीमात्रा चेत्यादिना । एवं मैत्रेयोप
For Private And Personal Use Only