________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
४५
बोध्यम् । अस्य शास्त्रस्यानुमानप्राधान्यात् तु केवलानुमानस्थ मुख्यतयैवोपन्यासो न त्वागमस्यानपेक्षेति । तथा च कारिका।
सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् । तस्मादपि चासिद्ध परोक्षमाप्तागमात् सिद्धम् । इति । अनेन च सूत्रेणदं मननशास्त्रमित्यवगम्यते ॥६० ॥
उक्तप्रमाणैः साध्यस्य विवेक स्य प्रतियोग्यनुयोगिपदार्थानां संग्रहसूत्र वक्ष्यमाणानुमानोपयोगिकार्यकारणभावमपि प्रदशयति। __ सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेमहान् महतोऽहङ्गारोऽहङ्कारात् पञ्च तन्मात्राण्युभयमिन्द्रियं तन्मावेभ्यः स्थूलभूतानि पुरुष इति पञ्चविंशतिर्गणः ॥ ६१॥
सत्वादीनि द्रव्याणि न वैशेषिका गुणा: संयोगविभागवत्त्वात्। लघुत्वचलत्वगुरुत्वादिधर्मकत्वादिधर्मकत्वाच । तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः सुरुषोपकरणत्वात् पुरुषपशुबन्धकत्रिगुणात्मकमहदादिरज्जुनिर्माटत्वाञ्च प्रयुज्यते । तेषां सत्त्वादिद्रव्याणां या साम्यावस्था न्यूनानतिरिक्तावस्था न्यूनाधिकभावेनासंहतावस्थेति यावत्। अकार्य्यावस्थे ति निष्कर्षः । अकार्य्यावस्थोपलक्षितं गुणसामान्य प्रकृतिरित्यर्थः । यथाश्रुते वैषम्यावस्थायां प्रकृति नाशप्रसङ्गात् ।
सत्त्वं रजस्तम इति एषैव प्रकृतिः सदा । एषैव संसृतिर्जन्तोरस्याः पारे परं पदम् ॥ इत्यादिस्मृतिभिर्गुणमात्रस्य व प्रकृतित्ववचनाच । सत्त्वा. दौनामनुगमाय सामान्येति । पुरुषव्यावर्तनाय गुणेति । महदादिव्यावर्तनाय चोपलक्षितान्तमिति। महदादयोऽपि
For Private And Personal Use Only