________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
सांख्यदर्शनम्।
युक्तितोऽपि न बाध्यते दिमूढ़वदपरोक्षाहते ॥ ५९॥
युक्तिर्मननम्। अपिशब्दः श्रवणसमुच्चयार्थः। वाङ्मावमपि पुरुषस्य बन्धादिकं श्रवणमननमात्रेण न बाध्यते साक्षात्कारं विना यथा दिन ढस्य जनस्य वामानमपि दिग्दै । परीत्य श्रवणयुक्तिभ्यां न बाध्यते साक्षात्कारं विनेत्यर्थः । प्रकते चेदमेव बाध्यत्व यत्पुरुषे बन्धादिबुद्धिनिवृत्तिनं त्वभावसाक्षात्कारः श्रवणादिना तदुत्पत्तिसम्भावनाया अप्यभावादिति। अथवेत्थं व्याख्येयम्। ननु नियतकारणात् तदुच्छित्तिरित्यनेन विवेकज्ञानमविवेकोच्छेदकमुक्तम्। तजज्ञानं किं श्रवणादिसाधारणमुतास्ति कश्चिहिशेष इत्याकाकायामाह। युतितोऽपौत्यादिसूत्रम् । अविवेको युक्तित: श्रवणतश्च न बाध्यते नोच्छिद्यते विवेकापरोक्षं विना दिमोहबदित्यर्थः । साक्षात्कार मे साक्षात्कारविशेषदर्शनस्य व विरोधित्वादिति ॥५॥
तदेवं विवेकसाक्षात्कारान्मोक्षं प्रतिपाद्यतः परं विवेकः प्रतिपादनीयः । तत्रादौ प्रकृतिपुरुषादीनां विवेकत: सिद्धी प्रमाणान्युप न्यस्यन्त ।
अचाक्षुषाणामनुमानेन बोधो धूमादिभिरिव वरुः॥ ६ ॥
अचाक्षुषाणामप्रत्यक्षाणाम् । केचित् तावत् पदार्थाः स्थूलभूततत्कायंदेहादयः प्रत्यक्षसिद्धा एव। प्रत्यक्षेणासिद्धानां प्रकृतिपुरुषादीनामनुमानन प्रमाणेन बोध: पुरुष. निष्ठफल सिद्धिर्भवति यथा धूमादिभिर्जनितेनानुमानन वड़े: सिद्धिरित्यर्थः। अनुमानासिहमप्यागमात् सिध्यतीत्वपि
For Private And Personal Use Only