________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
बधादीनां सर्वेषां चित्त एवावस्थानात् तत् पुरुषे वानावं सर्व स्फटिकलौहित्यवत् प्रतिविम्बमानत्वाव तु तत्त्व तस्य भावः । अनारोपितं जपालौहित्यवदित्यर्थः। अतो नोक्ता. विरोध इति भावः । स समान: सबभी लोकावनुसन्चरति ध्यायतीव लेलायतीवेत्यादिश्रुतयस्त्वत्व प्रमाणम्। पुरुषः समानो लोकयोरेकरूपः । इवशब्दाभ्यां नानारूपत्वस्यौपाधिकत्वमुक्ताम् । तथा चोक्तम्। बन्धमोक्षौ सुखं दुःखं मोहापत्तिश्च मायया। खप्ने यथात्मनः ख्याति: संमृतिर्न तु वास्तवौ ॥
इति । मायया मायाख्यप्रवत्योपाधिकौत्यर्थः । नन्वेवं तुच्छस्य बन्धस्य हानं कथं पुरुषार्थः कथं वान्यधर्माभ्यामविवेकविवेकाभ्यामन्यस्य बन्धमोक्षस्वीकार कर्मादिभिरिव नाव्यवस्थेति चेदवोक्तप्रायमपि पुन: प्रपञ्चाते। यद्यपि दु:खयोगरूपो बन्धो रत्तिरूपी च विवेकाविवेको चित्तस्यैव तथापि पुरुषे दुःखप्रतिविम्ब एव भोग इत्यवस्तुत्वेऽपि तहानं पुरुषार्थः । दुःखं मा भुनायेति प्रार्थनात्। एवं यस्मै पुरुषाय प्रकांतरविवेकेनात्मानं दर्थितवती तहासनावशात् तमेव संयोगहारा बध्नाति नान्यम् । तथा यसै विवेकेनात्मानं दर्शितवतो तमेव स्ववियोगहारा मोचयति । वासनोच्छेदादिति व्यवस्थापि घटत इति । कर्मादिभिर्बन्धाभ्य पगमे त्वेवं व्यवस्था न घटते। कर्मादीनां साक्षिभास्यत्वाभावेन साक्षात् पुरुषेष्वप्रतिविम्ब. नादिति ॥५॥ ___ ननु बन्धादिकं चेत् पुरुषे वामात्र तर्हि श्रवणेन युक्त्या वा तस्य बाधो भवतु किमर्थ अतिस्पत्योः साक्षात्कारपर्यन्त विवेकन्जानमुपदिश्यते मोक्षहेतुतयेति। तबाह ।
For Private And Personal Use Only