SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ सांख्यदर्शनम्। प्रतीतानां बुयायखिलकार्याणां पुनः सृध्यभावात् प्रधानस्य विदमेव प्रलयानन्तरं जन्म यबु धादिरूपैकपरिणामत्यागेनापरबुधादिरूपतया परिणमनमिति। न चात्मनि जन्मादिज्ञानमभिमान एव न भवति पुरुषस्यापि लिङ्गशरीर. संयोगवियोगरूपयोर्जन्ममरणयोः पारमार्थिकत्वादिति वाच्यम्। न जायते वियते वा कदाचित् । नायं भूत्वा भविता वा न भूयः । इत्यादिवाक्य जन्मादिप्रतिषेधेनोत्पत्तिविनाशाभिमानरूपस्यात्मनि जन्मादिज्ञानस्य सिद्धेरप्रसत्तास्य प्रतिषेधायो. गात्। किञ्च बुद्धयादिषु पुरुषाणामभिमानोऽनादिवक्त न शक्यते बुद्धग्रादीनां कार्य वात् । अत: कार्येष्वभिमानव्यवस्थार्थ नियामकाकाङ्क्षायां कारणाभिमान एव नियामक तया सिध्यति लोके दृष्टत्वात् कल्पनायाश्च दृष्टानुसारित्वात् । यथा लोके दृष्टः क्षेत्राभिमानात् क्षेत्रजन्यधान्यादिष्वभिमान: । सुवर्णाभिमानाञ्च तज्जन्यकटकादिष्वभिमानः । तयोनिवृत्त्या च तयोनिवृत्तिरिति प्रधानाभिमानत हासनयोश्च वीजाकरवदनादित्वान तदभिमाने नियामकान्तरापेक्षेति ॥ ५७॥ एवं प्रतिपादिते चतुर्य हे पुनरियमाशङ्का। ननु पुरुषे चेबन्धमोक्षौ विवेकाविवेकी खौकतो तर्हि नित्यशुद्धबुद्धमुक्तस्यति खोक्तिविरोधः । तथा च । न विरोधो न चोत्पत्तिन बडो न च साधकः । न मुमुक्षुन वै मुक्त इत्योषा परमार्थता। इत्यादिश्रुतिविरोधश्चेति। तां परिहरति । वाङ्मात्रौं न तु तत्व चित्तखितेः ॥३८॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy