________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
तत्वात् । अनागतावस्थस्य अविवेकस्यास्मन्मते नाशसम्भवाञ्चेति
॥ ५६ ॥
ननु प्रकृतिपुरुषाविवेक एव चेत्थं संयोगद्दारा बन्धहेतु - स्तयोर्विवेक एव च मोक्षहेतुस्तर्हि देहाद्यभिमानसत्त्वऽपि मोक्षः स्यात् । तञ्च श्रुतिस्मृतिन्यायविरुद्धमिति तत्राह । प्रधानाविवेकादन्याविवेकस्य तड्वाने हानम्
४१
॥ ५७ ॥
पुरुषे प्रधानाविवेकात् कारणाद्योऽन्याविवेको बुझाद्यविवेको जायते काव्याविवेकस्य कार्य्यतयानादिकारणाविवेकमूलकत्वात् तस्य प्रधानाविवेकहाने सत्यवश्यं हानमित्यर्थः । यथा शरीरादात्मनि विविक्त शरीरकार्येषु रूपादिष्वविवेको न सम्भति तथा कूटस्थत्वादिधर्मेः प्रधानात् पुरुषे विविक्त तत्कार्येषु परिणामादिधर्मकेषु बुद्धयादिष्वभिमानो नोत्पत्तुमुत्सहृत तुल्य न्यायात् कारणनाशाचेति भावः । तदेतत् प्रयते । चित्राधारपटत्यागे त्यक्त तस्य हि चित्रकम् ।
प्रकृतविरमे चेत्थं ध्यायिनां के स्मरादयः ॥
इति । विरमो विरामस्त्यागः | आदिशब्देन द्रव्यरूपा अपि विकारा ग्राह्या इति । यच्च बुद्धिपुरुषविवेकादेव मोक्ष इत्यपि क्वचिदुच्यते । तत्र स्थूलसूक्ष्म बुद्धिग्रहणात् प्रकृतेरपि ग्रहणम् । अन्यथा बुद्धिविवेकेऽपि प्रक्कत्यभिमानसम्भवादिति । ननु बुझाद्यभिमानातिरिक्ते प्रक्कत्यभिमाने किं प्रमाणमहमन्त्र इत्याद्यखिलाभिमानानां बुयादिविषयत्वेनैवोपपत्तेरिति
चेन्न ।
मृत्वा मृत्वा पुनः सृष्टौ स्वर्गी स्यां मा च नारकी । इत्याद्यभिमानानां प्रधानविषयत्वं विनानुपपत्त े ।
For Private And Personal Use Only