________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
सांख्यदर्शनम् ।
शक्यते कर्मादिकं त्वविवेकाख्य हेतूच्छेदद्वारे वेत्याशयेनाविवेक
1
।
एव मुख्यतः संयोग हेतुतयोक्त इति । श्रयं चाविवेकोऽग्टहीतासंसर्गक मुभयज्ञानमविद्यास्थलाभिषिक्त एव विवक्षितः । बन्धो विपर्ययाद्विपर्ययभेदाः पञ्चैत्यागामिसूत्रद्दयात् । तस्य हेतुरविति योगसूत्र ऽप्यविद्याया एव पञ्च पर्याया बुद्धिपुरुषसंयोगहेतुतावचनाच्चान्यथाख्यात्यनभ्युपगममात्र एवं योगतोऽत्र विशेषौचित्यात् । न पुनरविवेकोऽवाभावमाचं विवेकप्रागभावो वा । मुक्तस्यापि बन्धापत्तेः । जीवन्मुक्तस्यापि भाविविवेकव्यक्तिप्रागभावेन धर्माधर्मोत्पत्तिद्दारा पुनर्बन्धप्रसङ्गाश्च । तथागामिसूत्रस्थध्वान्तदृष्टान्तानुपपत्तेश्च । अभावस्य ध्वान्तवदावरकत्वासम्भवात् । तथा वृद्धिहासावप्यविवेकस्य श्रूयमाणौ नोपपद्येयातामिति । अस्मन्मते च वासनारूपस्यैवाविवेकस्य संयोगाख्यजन्म हेतुतया तमोवदावरकत्ववद्धिप्रासादिकमञ्जसैवोपपद्यते । तस्य हेतुरविद्येति पातञ्जलसूत्रे च भाष्यकारेरविद्याशब्देनाविद्यावीजं व्याख्यातम् । ज्ञानस्य संयोगोत्तरकालीनत्वेन संयोगाजनकत्वादिति । अपि च पुरुषः प्रकृतिस्थो हि भुक्त इत्यादिवाक्येष्वभिमानाख्य संयोगस्य व प्रकृतिस्थताख्य संयोग हेतुतावगम्यते । अत एव चाविद्या नाभावोऽपि तु विद्याविरोधिज्ञानान्तरमिति योगभाष्ये व्यासदेवैः प्रयत्न नावष्टतम् । तस्मादविवेकाविद्ययोस्तुल्ययोगक्षेमतयाविवेकस्यापि ज्ञानविशेषत्वमिति सिद्धम् । श्रयञ्चाविवेकस्त्रिधा संयोगाख्यजन्म हेतुः साचाद्धर्माधर्मोत्पत्तिद्वारा रागादिदृष्टद्वारा च भवति । सति मूले तद्विपाक इति योगसूत्रात् कर्त्तास्मीति निवध्यत इति स्मृतेः । वीतरागजन्मादर्शनादिति न्यायसूत्राच्च । तदुक्तं मोचधर्मेऽपि । ज्ञानेन्द्रियाणीन्द्रियार्था नोपसर्पन्यतर्षुलम् ।
For Private And Personal Use Only
·