________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
साक्षात्कारः। संयोगाप्रागसत्त्वात् । किन्तु विवेकपागभामे विवेकाख्यज्ञानवासना वा तदुभयमपि न पुरुषधर्मः। किन्तु बुद्विधर्म एवेत्य न्यधर्मेणान्यत्र संयोगेऽतिप्रसङ्गदोषसाम्यमस्त्येवेति चेत् । मैवम् । विषयतासम्बन्धेनाविवेकस्य पुरुषधर्मत्वात्। तथा च प्रकतिर्बुद्धिरूपा सती यस्मै खामिपुरुषाय तनुं विविध न दर्शितवती वत्तिदर्शनार्थं तदीयबुद्धिरूपेण तत्रैव पुरुषे संयुज्यत इति व्यवस्थयातिप्रसङ्गाभावात् । तदुक्तं कारिकया।
पुरुषस्य दर्शनार्थं कैवल्या) तथा प्रधानस्य । पङ्ग्वन्धवटुभयोरपि संयोगस्तत्वतः सर्गः ॥ इति । स्वामिने पुरुषाय प्रधानेन दर्शयितु तयोः कैवल्यार्थं चेत्यर्थः । अविवेकस्य वृत्तिरूपत्व तु वामान न तु तत्त्व चित्तस्थितेरित्यागामिसूत्रे वक्ष्यामः । अविवेकच संयोगहारैव बन्धकारणं प्रलये बन्धादर्शनात्। अविवेकनाशेऽपि जीवन्मुक्तस्य दु:खभोगदर्शनाच्च । अतः साक्षादेवाविवेको बन्धकारणं प्राडोमः। ननु भोग्यभोक्तभावनियामकले न लप्सस्थानादिखखामिभावस्य कर्मादीनां वा संयोगहेतुत्वमस्तु किमित्य विवेकोऽपि संयोगहेतुरिष्यत इति चेन्न ।
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥
इति गौतायां सनाख्याभिमानस्य संयोगहेतुत्वस्मरणात् । वक्ष्यमाणादिवाक्ययुक्तिभ्यश्चान्यथा ज्ञानतामोक्षस्य श्रुतिस्मतिसिद्धस्यानुपपत्तेश्च । अथैवमपि खोपाधिकर्मादिकमपि संयोगकारणं भवति तहिहाय कथमविवेक एव केवलं तत्र कारणमुच्यत इति । उच्यते । अविवेकापेक्षया कर्मादीनामपि परम्परयैव पुरुषसम्बन्धः। तथाविवेक एव पुरुषेण साक्षाच्छेत्तु
For Private And Personal Use Only