________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम्।
बन्धो निराकृतः। यत्र तु तज्जन्यादृष्टेनेत्यार्थिकविभागादपौनरुत्यम् ॥ ५२॥ नन्वन्यधर्मेणाप्यन्यस्य बन्ध: स्यात् तबाह ।
अतिप्रसक्तिरन्यधर्मवे ॥ ५३ ॥ बन्धतत्कारणयोभिन्नधर्मतिप्रसक्ति मुक्त प्रापि बन्धा. पत्तिरित्यर्थः ॥ ५३॥
किं बहुना। स्वभावादिकर्मान्तरन्येन वा केनापि पुरुषस्य बन्धात्पत्तिर्न घटते श्रुतिविरोधादिति साधारणं बाधकमाह।
निर्गुणादिश्रुतिविरोधश्चेति ॥ ५४॥ पुरुषबन्धस्यानोपाधिकले साक्षी चेता केवलो निर्गणश्वेत्यादिश्रुतिविरोधश्चेत्यर्थः। इतिशब्दो बन्धहेतुपरीक्षा समाप्तौ ॥ ५४॥
तदेवं न स्वभावतो बद्धस्सेत्यादिना प्रघट्टकेनेतरप्रतिषेधतः प्रकतिपुरुषसंयोग एव साक्षाहन्ध हेतुरवधारितः। तत्रेयमाशङ्का। ननु प्रकृतिसंयोगोऽपि पुरुषे स्वाभाविकत्वादिविकल्पग्रस्तः कथं न भवति संयोगस्य स्वाभाविकत्वकालादिनिमित्तकत्वं हि मुक्तस्यापि बन्धापत्तिरित्यादिदोषा यथायोग्य समाना एवेति । तामिमामाशङ्कां परिहरति ।
तद्योगोऽप्यविवेकान समानत्वम् ॥ ५५ ॥
पूर्वोतातद्योगोऽपि पुरुषस्याविवेकाहक्ष्यमाणादविवेकादेव हि निमित्तात् संयोगो भवति। अतो नोक्तदोषाणां समानत्वमस्तीत्यर्थः। स चाविवेको मुक्तोषु नास्तीति न तेषां पुनः संयोगो भवतीति । नन्वविवेकोऽत्र न प्रकृतिपुरुषाभेद
For Private And Personal Use Only