________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
मूर्त्तत्वाहटादिवत् समानधर्मापत्तावपसिशान्तः ॥५०॥
यदि च घटादिवत् पुमान् मूर्तः परिच्छिनः स्वीक्रियते। तदा सावयवत्वविनाशित्वादिना घटादिसमानधर्मा पत्तावपसिद्धान्तः स्यादित्यर्थः ॥ ५० ॥
गतिश्रुतिमुपपादयति। गतिश्रुतिरप्युपाधियोगादाकाशवत् ॥५१॥
या च गतिश्रुतिरपि पुरुषेऽस्ति सा विभुत्वश्रुतिस्मृतियुक्त्यनुरोधेनाकाशस्येवोपाधियोगादेव मन्तव्येत्यर्थः । तत्र च प्रमाणम्।
घटसंवृतमाकाशं नीयमाने घटे यथा ।
घटो नौयेत नाकाशं तहज्जीवो नभोपमः ॥ बडेगुणेनात्मगुणेन चैव पाराग्रमानो ह्यवरोऽपि दृष्टः ।
इत्यादिश्रुतिः। नित्यः सर्वगतः स्थाणुरित्यादिका च स्मृतिः । मध्यम परिमाणत्वे सावयवत्वापत्त्या विनाशित्वमणुत्वं च देहव्यापिज्ञानाद्यनुपपत्तिरित्यादिश्च युक्तिरिति । अत एव।
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम् ।
प्रकृतिश्च तदनाति त्रिषु लोकेधु कामगा ॥ __ इत्यादिस्मृतिभिः प्रकृतरेव विशिष्य क्रियारूपा गतिः स्मर्य्यत इति ॥५१॥
न कर्मणाप्यतधर्मत्वात् ॥ ५२॥ कर्मणा दृष्टेनापि साक्षाव पुरुषस्य बन्धः । कुतः। पुरुषधर्मवाभावादित्यर्थः । पूर्व विहितनिषिव्यापाररूपेण कर्मचा
For Private And Personal Use Only