________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
तथान्यञ्च नृपेवं तु न सत् सङ्कल्पनामयम् ॥ इति विष्णु पुराणादिभ्यः परिणामित्वस्यैवासत्तात्वावंगमादिति। सङ्कल्पनामयमोखरादिसङ्कल्परचितम् । एतेन ।
विज्ञानमयमेवैतदशेषमवगच्छत । इत्यादिना विष्णु पुराणे मायामोहरूपिणा विष्णुनासुरभ्योऽपि तत्त्वमेवोपदिष्टम् । ते वनधिकारादिदोषैविपरीतार्थग्रहणेन विज्ञानवादिनो नास्तिका बभूवुरित्यवगन्तव्यम्। तदेतत् सर्व ब्रह्ममीमांसाभाष्थे मायावादनिरसनप्रसङ्गतो विस्तारितमस्माभिः ॥ ४३ ॥
नन्वेवं भवतु शून्यमेव तत्त्व तदा सुतरामेव बन्धकारशान्वेषणं न युक्तं तुच्छत्वादिति नास्तिकशिरोमणिः प्रत्यवतिष्ठते ।
शून्य' तत्त्वं भावो विनश्यति वस्तुधर्मत्वादिनाशस्य ॥४४॥ __ शून्यमेव तत्त्व यतः सर्वोऽपि भावो विनश्यति यश्च विनाशो स मिथ्या स्वप्रवत्। अत: सर्ववस्तनामाद्यन्तयोरभावमात्र त्यामध्ये क्षणिकसत्त्व सांवत्तिकं न पारमार्थिक बन्धादि । ततः किं केन बध्येतत्वाशयः। भावानां विना. शित्वे हेतुर्वस्तुधर्मवाहिनाशस्येति। विनाशस्य वस्तुस्वभाजत्वात्। स्वभावं तु विहाय न पदार्थस्तिष्ठतौत्यर्थः ॥४४॥ परिहरति ।
अपवादमावमबुद्धानाम् ॥ ४५ ॥ भाववाहिनाशित्वमिति मूढ़ानामपवादमान मिथ्यावाद एव । नाशकारणाभावेन निरवयवद्रयाणां नाशासम्भवात् ।
For Private And Personal Use Only