________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः ।
तदभाव तदभावाच्छ्न्यं तर्हि ॥ ४३॥ तहि बाह्याभावे शून्यमेव प्रसज्येत न तु विज्ञानमपि । कुतः । तदभावे तदभावाहाह्याभावे विज्ञानस्याप्यभावप्रमङ्गाहिज्ञानप्रतीतेरपि बाह्यप्रतौतिवदवस्तुविषयत्वानुमानसम्भवात् । विज्ञानप्रामाण्य स्य क्वाप्यसिद्धत्वाच्च। तथा विज्ञान प्रमाणानामपि बाह्यतयापलापाचेत्यर्थः। नन्वनुभवे कस्यापि विवादाभावेन नास्ति तत्र प्रमाणापेक्षेति चेन्न शून्यवादिनामेव तत्र विवादात्। अथासतापि प्रमाणेन वस्तु सिध्यति विषयाबाधस्यैव प्रामाण्यप्रयोजकत्वान्न तु प्रमाणपारमार्थिकत्वस्येति चेन्न। एवं सत्यसप्रमाणस्य सर्वत्र सुलभत्वेन क्वाप्यर्थे प्रमाणान्वेषणस्यायोगात्। अथासन्मध्येऽपि व्यावहारिकसत्त्वरूपो विशेषः प्रमाणादिष्वेष्टय इति चेत्। आयातं मार्गेण । किं पुनरिदं व्यावहारिकत्वम्। यदि परिगामित्वं तदास्माभिरपीदृशमेव सत्त्वं ग्राह्यग्राहकप्रमाणानामिष्टं शुतिरजतादितुल्यत्वस्यैव प्रपञ्चेऽस्माभिः प्रतिषेधात्। यदि पुनः प्रतीयमानतामात्रं तदापि तादृशैरव प्रमाणैर्बाह्याथस्यापि सिद्दिप्रसङ्गात् । लाघवतर्कानुग्रहौतन यथाकथञ्जिदनुमानेनैव बाधस्तु विज्ञानेऽपि समान इति। एतेनाधुनिकानां वेदान्तिब्रुवाणामपि मतं विज्ञानवादतुल्ययोगक्षेमतया निरस्तम्। विज्ञानमात्रसत्यताप्रतिपादक श्रुतिस्मृतयस्तु कूटस्थत्वरूपां पारमाथिकसत्तामेव बाह्यानां प्रतिषेधन्ति। न तु परि. णामित्वरूपां व्यावहारिकसत्तामपि ।
यत् तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसम्भूतां तहस्तु नृप ! तच्च किम् ॥ . वस्तु राजेति यलोके यत् तु राजभटादिकम् ।
For Private And Personal Use Only