________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
'प्रथमोऽध्यायः ।
२१
यस्यैवान्वयव्यतिरेकाभ्याञ्च । न पुनरन्तर्विकारेषु मनसो निमि 'तत्वमात्मनयोपादानत्व' युक्त कारणदयकल्पने गौरवात् । नन्वहं सुखौ दुःखो करोमीत्याद्यनुभवादात्मनो विकारोपादानत्वसिद्धिरिति चेत्र । अहं गौर इत्यादिभ्रमशतान्तः पातित्वेनाप्रामाण्यशङ्कास्कन्दित तयोक्त प्रत्यक्षाणामुक्ततर्कानुग्टहीतानुमानापेचया दुर्बलत्वात् । श्रात्मनश्विन्द्मावत्वे तु युक्तिरग्रे वक्ष्यत इति दिक् । अस्य सूत्रस्यैवार्थः कारिकयाप्युक्तः ।
तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्त्तृत्वे च तथा कर्त्त व भवत्युदासीनः ॥
इति । कर्त्तृत्वमात्र दुःखित्वादिसकलविकारोपलक्षणम् । तथा योगसूत्रेऽप्यस्य सूत्रस्यैवार्थ उक्तः । द्रष्टृदृश्ययोः संयोगो हेयहेतुरिति । गोतायां च ।
पुरुषः प्रक्कृतिस्थो हि भुङ्क्ते प्रक्कतिजान् गुणान् । इति । प्रकृतिस्थः प्रकृतौ संयुक्तः । तथा च श्रुतावपि । यात्मन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।
जन्मापर
इति । न च कालादिवदेव प्रकृतिसंयोगोऽपि मुक्तामुक्तपुरुषसाधारणतया कथं बन्धहेतुरिति वाच्यम् । नामः खखबुद्धिभावापद्मप्रकृतिसंयोगविशेषस्यैवात्र संयोगशब्दार्थत्वात् । योगभाष्ये व्यासैस्तथा व्याख्यातत्वात् । बुद्धिवृत्त्युपाधिनैव पुरुषे दुःखयोगाच्च । वैशेषिकादिवदेव भोगजनकतावच्छेदकत्वेनान्तःकरणसंयोगे वैजात्य' चास्माभिरपौष्टम् । अतो न सुषुप्त्यादो बन्धप्रसङ्गः । स्वस्वभुक्तवृत्तिवासनावद्यत्किचिदवत्तितत् संस्कारप्रवाहोऽप्यनादिरतः स्वस्वामि भावव्यवस्थितिः । कश्चित् तु प्रकृतिपुरुषयोः संयोगाङ्गीकारे पुरुषस्य परिणामसङ्गी प्रसज्येयाताम् । अतोऽत्राविवेक एव योगशब्दार्थो न तु संयोग इति । तन्न । तद्योगोऽप्यविवे
For Private And Personal Use Only