________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
सांख्यदर्शनम् ।
कादिति सूत्रेणाविवेकस्य योगहेतुताया एव सूत्रकारेण वक्ष्यमाणत्वात् । खखामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगस्तस्य हेतुरविद्येति सूत्राभ्यां पतिञ्जलेऽपि संयोगहेतुत्वस्यैवाविद्याया उक्तत्वाच। किञ्च विवेकाभावरूपस्याविवेकस्य संयोगवे प्रलयादावपि प्रकृतिपुरुषसंयोगसत्त्वन भोगाद्यापत्तिः । मिथ्याज्ञानरूपस्याविवेकस्य च संयोगवे आत्माश्रयः पुम्प्र. कतिसंयोगस्याज्ञानादिहेतुत्वादिति। तस्मादविवेकातिरिक्तो योगो वक्तव्यः। स च संयोग एवान्यस्याप्रामाणिकत्वात् । संयोगश्च न परिणाम: सामान्य गुणातिरिक्तधर्मोत्पत्त्य व परिणामित्वव्यवहारात् । अन्यथा कूटस्थस्य सर्वगतत्वरूपविभुत्वानुपपत्त:। नापि संयोगमात्र सङ्गः परिणामहेतुसंयोगस्वैव सङ्गशब्दार्थताया वक्तव्यत्वादिति। ननु तथापि कथं नित्ययोः प्रकतिपुरुषयोर्महदादिहेतुरनित्यः संयोगो घटत इति चेन्न। प्रकृतेः परिच्छिन्नापरिच्छिन्नत्रिविधगुणसमुदायरूपतया परिच्छिवगुणावच्छेदेन पुरुषसंयोगोत्यत्त: सम्भवात्। श्रुतिस्मतिसिद्धत्वात् प्रकृतिसंयोगक्षोभयोरिति । एतच योगवाति के प्रपञ्चितमस्माभिः । अपरस्तु भोग्यभोक्तयोग्यतैवानयोः संयोग इत्याह । तदपि न । योग्यताया नित्यत्व ज्ञाननिवत्यं त्वानुपपत्तः। अनित्यत्वे किमपराई संयोगेन परिणामित्वापत्त: समानत्वात् । भोग्यभोतयोग्यतायाः संयोगरूपत्वस्थ सूत्रादिष्वनुक्तत्वेनाप्रामाणिकत्वाञ्चेति । तस्मात् संयोगवि. शेष एवान बन्धाख्यहेयहेतुतया सूत्रकाराभिनत इति स्वयं बन्धहेतुरवधारितः ॥ १८ ॥
इदानों नास्तिकाभिप्रेता अपि बन्धहेतवो निराकर्तव्याः। तत्र।
षड़भिज्ञो दशबलोऽवयवादी विनायकः ।
For Private And Personal Use Only