________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
सांख्यदर्शनम्। विनाशः सम्भवतीति । अत: प्रकृतिवियोगे बन्धाभावादौपा. धिक एव बन्धो न तु स्वाभाविको नैमित्तिको वेति । तथा संयोगनिवृत्तिरेव साक्षादानोपाय इत्यपि वक्रोक्तिफलम् । तथा च स्मृतिः।
यथा ज्वलद्ग्रहाश्लिष्टम्यहं विच्छिद्य रक्ष्यते। तथा सदोषप्रकृतिविच्छिन्नोऽयं न शोचति ॥ इति। वैशेषिकाणामिव पारमार्थिको दुःखयोग इति भ्रमो मा भूदित्येतदर्थ नित्ये त्यादि। यथा स्वभावशुद्धस्य स्फटिकस्य रागयोगो न जपायोगं विना घटते तथैव नित्यशुद्वादिस्वभावस्य पुरुषस्योपाधिसंयोगं विना दुःखसंयोगो न घटते खतो दुःखाद्यसम्भवादित्यर्थः । तदुक्तं सौरे ।
यथा हि केवलो रक्तः स्फटिको लच्यते जनैः। रञ्जकाद्यप्रधानेन तहत् परमपूरुषः । इति । नित्यत्वं कालानवच्छिन्नत्वम् । शुद्धादिखभावत्वं च नित्यशुद्धत्वादिकम्। तत्र नित्यशुद्धत्वं सदा पापपुण्य. शून्यत्वम्। नित्यबुद्धत्वमलुप्तचिद्रूपत्वम्। नित्यमुक्तत्वं सदा पारमार्थिकदु:खायुक्तत्वम्। प्रतिविम्बरूपदुःखयोगस्वपारमार्थिको बन्ध इति भावः। आत्मनो नित्यशुद्धत्वादी च श्रुतिः। अयमात्मा सन्मावो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरित्यादिः। नन्वस्य मननशास्त्रत्वादनार्थे युक्तिरपि वक्तव्येति चेत् सत्यम्। न तद्योगस्तद्योगात इत्यनेन नित्यशुद्धत्वादी युक्तिरप्य क्तव। तथाहि
आत्मनि नित्यत्वविभुत्वादिकं तावन्यायादिदर्शनेष्वेव साधितम्। तत्र नित्यस्य विभोरात्मनो यद्योगं विना दुःखाद्यखिलविकारैर्योगो न भवति तस्यैवान्तःकरणस्य सर्वसम्मतकारणस्य तपादानकारणत्वमेव युक्तं लाघवात् । सर्वविक्तारेवन्तःकर
For Private And Personal Use Only