________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
सिद्धः । चित्ते च पुरुषस्य स्वत्वं स्वभुक्ता कृत्तिवासनावत्त्वमिति । यत् तु चित्तस्यैव बन्धमोक्षो न पुरुषस्येति श्रुतिस्मृतिष गोयते तविम्बरूपदुःखयोगरूपं पारमाथिकं बन्धमादाय बोध्यम् ॥१७॥ साक्षात् प्रतिनिमित्तकत्वमपि बन्धस्यापाकरोति ।
प्रकृतिनिबन्धनाचेन्न तस्या अपि पारतवाम् ॥ १८॥
ननु प्रकृतिमिमित्ताइन्धो भवविति चेन्न । यतस्तस्या अपि बन्धकत्व संयोगपारतन्त्रामुत्तरत्र वक्ष्यमाणमस्ति । संयोगविशेषं विनापि बन्धकत्व प्रलयादावपि दुःखबन्धप्रसङ्गादित्यर्थः । प्रकृतिनिबन्धना चेदिति पाठे तु प्रकृतिनिबन्धना चबन्धनेत्यर्थः ॥ १॥
अतो यत्परंतन्त्रा प्रतिबन्धकारणं सम्भवेत् तस्मादेव संयोगविशेषादौपाधिको बन्धोम्निसंयोगाजलौष्णावदिति खसिद्धान्तमनेनैव प्रसङ्गेनान्तराल एवावधारयति ।
न नित्यशुद्धबुद्धमुक्तखभावस्य तद्योगस्तद्योगाहते ॥ १६ ॥
तस्मात् तद्योगादृते प्रकृतिसंयोग विना न पुरुषस्य तद्योगो बन्धसम्पर्कोऽस्ति । अपि तु स एव बन्धः । बन्धस्यौपाधिकत्व. लाभाय नञ्हयेन वक्रोक्तिः । यदि हि बन्धः प्रकृतिसंयोगजन्यः स्यात् पाकजरूपवत् तदा तहदेव तहियोगेऽप्यनुवर्तते । न च द्वितीयक्षणादेवुःखनाशकत्व कल्पं कारणनाशस्य कार्यनाशकतायाः क्ल तत्वेन तेनैवोपपत्तावस्माभिस्तदकल्पनात् । वृत्तिहि दुःखादेरुपादानम्। अतो दीपशिखावत् क्षणभङ्गराया वृत्त राशुविनाशित्व नैव तदर्माणां दुःखेच्छादौनां
For Private And Personal Use Only