________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् । लेनेव पद्मपवस्वासङ्गतायाः पुरुषासङ्गतायां दृष्टान्तताव. णाच ॥ १५ ॥
न कर्मणान्यधर्मत्वादतिप्रसतोश्च ॥ १६ ॥
न हि विहितनिषिदकर्मणापि पुरुषस्य बन्धः। कर्मणामनात्मधर्मत्वात् । अन्यधर्मेण साक्षादन्यस्य बन्धे च मुक्तस्यापि बन्धापत्तेः। ननु स्वखोपाधिकर्मणा बन्धाङ्गीकारे नायं दोष इत्याशयेन हेत्वन्तरमाह। अतिप्रसक्त श्चेति । प्रलयादावपि दुःखयोगरूपबन्धापत्तश्चेत्यर्थः । सहकार्यान्तरविलम्बतो विलबकल्पनं च प्रागेव निराकृतं न कालयोग इत्यादिसूत्र इति ॥१६॥ ___नन्वेवं दुःखयोगरूपोऽपि बन्धः कर्मसामानाधिकरण्यानुरोधेन चित्तस्यैवास्तु। दुःखस्य चित्तधर्मतायाः सिद्धत्वात् । किमर्थं पुरुषस्यापि कल्पाते बन्ध इत्याशङ्कायामाह। . विचित्रभोगानुपपत्तिरन्यधर्मत्वे ॥ १७ ॥
दुःखयोगरूपबन्धस्य चित्तमात्रधर्मत्वे विचित्रभोगानुपपत्तिः। पुरुषस्य हि दुःखयोग विनापि दुःखसाक्षात्काराख्य. भोगवीकारे सर्वपुरुषदु सादौनां सर्वपुरुषभोग्यता स्थानियामकाभावात् । ततथायं दुःखभोक्तायं च सुखभोतो त्यादिरूप. भोगवैचित्रं नोपपद्यतेत्यर्थः। यतो भोगवैचित्रयोपपत्तये भोगनियामकतया दुःखादियोगरूपो बन्धः पुरुषेऽपि खौकार्यः । स च पुरुषे दुःखयोगः प्रतिविम्बरूप एवेति प्रागवोक्तम्। प्रतिविम्बश्च खोपाधिवृत्तेरेव भवतीति न सर्वपुंसां सर्वदुःखभोग इति भावः। चित्तवृत्तिबोधे पुरुषस्यानादिः खखामिभावः सम्बन्धी हेतुरिति योगभाष्यादयं सिद्धान्तः
For Private And Personal Use Only