________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७
प्रथमोऽध्यायः। निमित्तत्वसामान्यं नापलप्यते श्रुतिस्मृतियुतिभिः सिहत्वात् । किन्तु यनैमित्तिकत्व पाकजरूपादिवनिमित्तजन्यत्व तदेव बन्धे प्रतिषिध्यते पुरुषे बन्धस्यौपाधिकत्वाभ्युपगमात् । ननु कालादिनिमित्तकत्वेऽपि सहकार्यान्तरसम्भवासम्भवाभ्यां व्यवस्था स्यादिति चेत् । एवं सति यत् संयोग सत्यवश्यं बन्धस्तत्रैव सहकारिणि लाघवाइन्धो युक्तः पुरुषे बन्धव्यवहारस्यौपाधिकले नाप्युपपत्ते रिति कृतं नैमित्तिकत्वेनेति ॥ १२ ॥
न देशयोगतोऽप्यस्मात् ॥ १३ ॥ देशयोगतोऽपि न बन्धः । कुतः । अस्मात् पूर्वसूत्रोक्तान्मुक्तामुक्ता सर्वपुरुषसम्बन्धात् । मुक्तस्यापि बन्धापत्तरित्यर्थः ॥१३॥
नावस्थातो देहधर्मत्वात् तस्याः ॥ १४ ॥ सङ्घातविशेषरूपताख्या देहरूपा यावस्था न तन्निमित्ततोऽपि पुरुषस्य बन्धः। कुतः । तस्या अवस्थाया देहधर्मत्वात् । अचेतनधर्मवादित्यर्थः । अन्यधर्मस्य साक्षादन्यबन्धकत्वेऽतिप्रसङ्गात् । मुक्तस्यापि बन्धापत्तरित्यर्थः ॥ १४ ॥ ननु पुरुषस्याप्यवस्थायां किं बाधकं तवाह।
असङ्गोऽयं पुरुष इति ॥ १५ ॥ इतिशब्दो हेत्वर्थे । पुरुषस्यासङ्गत्वादवस्थाया देहमानधर्मत्वमिति पूर्वसूत्रेणान्वयः । पुरुषस्यावस्थारूपविकारखोकारे विकारहेतुसंयोगाख्यः सङ्गः प्रसज्येतेति भावः । असङ्गत्वे च श्रुतिः। स यदन किञ्चित् पश्यत्यनन्वागतस्तेन भवति असङ्गो द्ययं पुरुष इति । सङ्गश्च संयोगमात्र न भवति । कालदेशसम्बन्धस्य पूर्वमुक्तत्वात् । श्रुतिस्मृतिषु पद्मपत्रस्थज.
For Private And Personal Use Only