________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१६
सांख्यदर्शनम् ।
स्वाभाविकस्य बन्धस्याप्यपायः पुरुषे सम्भवतीति तदेव तत्साधनोपदेशः स्यादिति चेदित्यर्थः ॥ १ ॥
समाधत्ते ।
शक्त्युङ्गवानुद्भवाम्यां नाशक्योपदेशः ॥ ११॥
।
उक्तदृष्टान्तयोरपि नाशक्याय स्वाभाविकायापायोपदेशो लोकानां भवति । कुतः । शक्त्य इवानुद्भवाभ्याम् । दृष्टान्तsafe शौक्कादेराविर्भावतिरोभावावेव भवतः । न तु शौक्यावरशक्त्योरभावो भवति । रजकादिव्यापारैयगिसङ्कल्पादिभिश्व रक्तपटसृष्टबोजयोः पुनः शौक्तशङ्कुरशक्त्याविर्भावादित्यर्थः । नन्वेवं पुरुषेऽपि दुःखशक्तितिरोभाव एव मोहोस्विति चेत्र दुःखात्यन्तनिवृत्तेरेव लोके पुरुषार्थत्वानुभवात् श्रुतिस्मृत्योः पुरुषार्थत्वसिद्धेश्च । न तु दृष्टान्तयोरिव तिरोभावमात्रस्येति । किञ्च दुःखयक्तितिरोभावमावस्य मोचले कदाचिद्योगीश्वरसङ्कल्पादिना शक्त्युद्भवस्य भृष्टवोजेष्विक मुक्तेष्वपि सम्भवेनानिर्मोक्षापत्तिरिति ॥ ११ ॥
।
स्वभावतो बन्धं निराकृत्य निमित्तभ्योऽपि बन्धमपाकरोति सूत्रजातेन । पुरुषे दुःखस्य नैमित्तिकत्वेऽपि ज्ञानाद्यपायोच्छेद्यत्वं न घटेत । श्रनागतावस्थ सूक्ष्म दुःखस्य यावदद्रव्यभावित्वादित्याशयेन नैमित्तिकत्वं निराक्रियते ।
न कालयोगतो व्यापिनो नित्यस्य सर्वसम्ब
ग्वात् ॥ १२ ॥
कुतः ।
नापि कालसम्बन्धनिमित्तकः पुरुषस्य बन्धः । व्यापिनो नित्यस्य कालस्य सर्वावच्छेदेन सर्वदा मुक्तासुक्त - सकलपुरुषसम्बन्धात् । सर्वावच्छेदेन सदा सकलपुरुषाणां बन्वापत्तेरित्यर्थः । अत्र च प्रकरणे कालदेशकर्मादीनां
For Private And Personal Use Only
2