SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० सांख्यदर्शनम् । त्यादयस्तावत् प्रत्यक्षानुमानागमैः परिणामितयैव सिद्धाः पुरुवस्यापरिणामित्व तु सदा ज्ञातविषयत्वादनुमीयते । तथाहि यथा चक्षुषो रूपमेव विषयो न सन्निकर्षसाम्येऽपि रसादिरवं पुरुषस्य बुद्धिवृत्तिरेव विषयो न तु सन्निकर्ष साम्येऽप्यन्यदस्विति फलबलात् क्लृप्तम् । बुद्धिलत्त्यारूढतयैव त्वन्यङ्गोग्यं भवति पुरुषस्य न स्वतः । सर्वदा सर्वभानापत्तेः । ताश्च बुद्धिवृत्तयो नाज्ञातास्तिष्ठन्ति ज्ञानेच्छा सुखादीनामज्ञातसत्ताखीकारे तेष्वपि घटादाविव संख्यादिप्रसङ्गादहं हं जानामि न वा सुखो न वेत्यादिरूपेण । व्यतस्तेषां सदा ज्ञातत्वात् तदुद्रष्टा चेतनोऽपरिणामीत्यायातम् । चेतनस्य परिणामित्व कदाचिदान्ध्यपरिणामेन सत्या यपि बुद्धिवत्तेरदर्शनेन संशयाद्यापत्तेरिति । एवं पारार्थ्यापारार्थ्यादिकमपि पूर्वोक्त वैधजातं बोध्यम् ॥ २ ॥ षष्ठीव्यपदेशादपि ॥ ३॥ ममेदं शरीरं ममेयं बुद्धिरित्यादेर्विदुषां षष्ठोव्यपदेशादपि देहादिभ्य आत्मा भिन्नः । अत्यन्ताभेदे षष्ठयनुपपत्तेरित्यर्थः । तदुक्त विष्णुपुराणे । त्वं किमेतच्छिरः किन्तु शिरस्तव तथोदरम् । किमु पादादिकं त्वं वै तवैतद्धि महीपते ! ॥ समस्तावयवेभ्यस्त्व ं पृथग्भूय व्यवस्थितः । कोऽहमित्यत्र निपुणो भूत्वा चिन्तय पार्थिव ! ॥ इति । न च स्थूलोऽहमित्यादिरपि विद्वापदेशोऽस्तीति वाच्यम् । श्रुत्या बाधिततया ममामा भद्रसेन इतिवद्गोयलजैव तदुपपत्तेरिति ॥ ३ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy