________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः।
.२२१
ननु पुरुषस्य चैतन्य राहोः शिरः शिलापुत्रस्य शरीर. मित्यादिव्यपदेशवदयमपि भवतु तबाह ।
न शिलापुत्रवड्वर्मिग्राहकमानबाधात् ॥४॥ शिलापुत्रस्य शरीरमित्यादिवदयं षष्ठीव्यपदेशो न भवति शिलापुत्रादि स्थले धर्मिग्राहकप्रमाणेन बाधादिकल्पमात्रम् । मम शरीरमिति व्यपदेशे तु प्रमाणबाधो नास्ति देहात्मताया एव बाधादित्यर्थः । यस्तु शास्त्रेत्र ममकारप्रतिषेधः न वाग्यस्यानित्य तया वाचारम्भणमावले नास यतापर एवेति भावः । पुरुषस्य चैतन्य मित्यत्राप्यस्ति धर्मियाह कमानबाधः। अनवस्थाभयेन लाघवाञ्च देहादियतिरिक्ततयात्मसिद्धौ चैतन्यस्वरूपतावगाहनादिति ॥ ४ ॥ देहादिव्यतिरिक्ततया पुरुषमवधार्थ तन्मुक्तिमधारयति।
अत्यन्तदुःखनिटत्या कृतकल्यता ॥ ५ ॥ सुगमम् ॥ ५ ॥ ननु दुःखनिवृत्त्या सुख स्यापि निवर्तनात् तुल्यायव्ययत्व न न सा पुरुषार्थ इति तवाह।
यथा दुःखात् क्लेशः पुरुषस्य न तथा सुखादभिलाषः ॥ ६॥
विषयविधया हेतुतायां पञ्चम्यौ ल शश्चात्र देषः। यथा टुःखे द्वेषो बलवत्तरो नैवं सुखेऽभिलाषो बलवत्तरोऽपि तु तदपेक्षया दुर्बल इत्यर्थः । तथा च सुखाभिलाषं बाधित्वापि दु.ख षो दुःखनिवृत्तावेवेच्छां जनयतीति न तुल्यायव्ययत्वमिति। तदुक्तम् ।
अभ्यर्थ रामभयेन साधुध्यिस्थ्य मिष्टेऽप्यवलम्बतेऽर्थे । .
For Private And Personal Use Only