________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८ सांख्यदर्शनम्।
उक्तस्येवराभावस्य स्थापनाय पराम्य पगतं ज्ञानेच्छाकत्यादिनित्यत्वप्रतिषेधति।
न बुड्यादिनित्यत्वमाश्रयविशेषेऽपि वह्निवत् ॥ १२६ ॥
बहिरवाध्यवसायाख्या वृत्तिः। तथा च ज्ञानेच्छाकत्यादौनामाश्रयविशेषे परैरोवरोपाधितयाभ्युपगतेऽपि नित्यत्व नास्ति । अस्मदादिबुद्धिदृष्टान्तेन सर्वेषामेव बुद्धीच्छादीनामनित्यत्वानुमानात्। यथा लौकिकवह्निदृष्टान्तेनावरण तेजसोऽप्यनित्यत्वानुमानमित्यर्थः ॥ १२६ ॥
पास्तां तावज्ज्ञानेच्छादेनित्यत्वं तदाश्रय ईश्वरोपाधिरेवासिद्ध ईखरस्यासिद्धेरित्यत आह ।
आश्रयासिद्धेश्च ॥ १२७॥ सुगमम् ॥ १२७॥
नववं ब्रह्माण्डादिसर्जनसम) सर्वज्ञत्वादिकं कथं जन्यं सम्भाव्यतापि लोके तपादिभिरेवमैश्वर्यादर्शनादिति तत्राह।
योगसिड्न योऽप्यौषधादिसिद्धिवन्नापलपनौयाः ॥ १२८॥
औषधादिसिद्धिदृष्टान्तेन योगजा अणिमादिसिहयः सूध्याद्यपयोगिन्यः सिध्यन्तीत्यर्थः ॥ १२८॥ पुरुषसिद्धिप्रतिकूलतया भूतचैतन्यवादिनं प्रत्याचष्टे।।
न भूतचैतन्य प्रत्येकादृष्टेः सांहत्येऽपि च सांहत्येऽपि च ॥ १२६ ॥
For Private And Personal Use Only